________________
श्रीउपदेशपदे
॥ ३७७ ॥
एवं पडिवत्तीए इमस्स तह देसणाए वोच्छेओ । तम्हा विसेसविसयं दट्ठवमिति वक्कत्थो ||८७८॥ एवमविशेषेण प्रतिपत्तौ पदार्थस्य तथाविधरूपतया वा दानविषयाया देशनाया व्यवच्छेदः प्राप्तः । न चासौ युक्तो, यतो दानशीलतपोभावनात्मकस्य धर्मस्य सर्वास्तिकशास्त्रेषु प्रतिपादयितुमधिकृतत्वात् । तस्मादहो सूरे ! विशेषविषयं विभागेनेत्यर्थः, द्रष्टव्यमिदं दानविधानं तन्निषेधनं चेति वाक्यार्थः ॥ ८७८ ॥
आगमविहितं तम्मि पडिसिद्धं वाहिगिश्च णो दोसो | तब्बाहाए दोसोत्ति महावक्कत्थगम्मं तु ॥ ८७९ ॥
आगमविहितं शास्त्रानुमतं यद्दानं, तस्मिन्नेवागमे प्रतिषिद्धं वा निवारितं यत् तदधिकृत्य देशनायां दानस्य विधिविया प्रतिषेधविषयायां च क्रियमाणायां न दोषो जीवहिंसानुमत्यादिलक्षणः कश्चित् प्रज्ञापयितुः सम्पद्यते । यदागमे विहितं दानं तस्य विधिदेशनायां यच्च तत्र निषिद्धं तन्निषेधदेशनायां च न कश्चिद् दोष इत्यर्थः । तत्र चायमागमः - "नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं देसकालसद्धासकारकमजुयं आयाणुग्गहबुद्धीए संजयाणं दाणं” । तथा, समगोवासयस्स णं भंते! तहारूवं समणं वा माहणं वा पडिहयपञ्चक्खायपावकम्मं फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिला माणस्स किं कज्जति ?, गोयमा ! एगंतसो निज्जरा एव । समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा पsिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिला भेमाणस्स किं कज्जति १ गोमा ! बहुया से निज्जरा अप्पे पावकम्मेत्ति" । तथा, समणोवासयस्स णं भंते! तहारूवं समणं वा माहणं वा अप्प
व्याख्याविधौ वा
क्यमहावा
क्यार्थादि
भेदाः
॥ ३७७ ॥