________________
REAIRCRACTICAL
यथोत्पथेन, वश्यानि येन च तदाचरितं जिनानाम् ॥२॥" एषा आगमनीतिः प्रधानरूपा सारभावमागता यर्त्तते धर्मे | साध्ये । इत्येष महावाक्याविषयः पुनरवगन्तव्यः ॥ ८७५ ॥ अत्रापि महावाक्यार्थनिगमनेनैदम्पर्यमाहा--
एवं पसत्थमेयं णियफलसंसाहगं तहा होइ । इय एस च्चिय सिट्ठा धम्मे इह अइदपजं तु ॥ ८७६॥ 4 एवमागमनीत्या प्रशस्तं प्रशंसास्पदमेतत्तपोध्यानादि भवति सतां । तथा निजफलसंसाधकं मोक्षलक्षणफलहेतुः।
तथेति समुच्चये । भवत्येपैवागमनीतिरेव श्रेष्ठा प्रधाना धर्मे इहैदम्पर्यमिदं पुनर्जेयम् ॥ ८७६ ॥ तथा;हदाणपसंसाईहिं पाणवहाईओ उजुपयत्यत्ति । एए दोवि हु पावा एवंभूओऽविसेसेणं ॥ ८७७ ॥
दानप्रशंसादिभिर्दानप्रशंसया, आदिशब्दात् तन्निषेधदेशनया च प्राणवधादिः दानप्रशंसायां प्राणिवधः, तन्निपेघेच क्षपणादिलाभान्तरायः। अत एव सूत्रकृतांगे पठ्यते-"जे उ दाणं पसंसंति वहमिछंति पाणिणं । जे णं पडिसेहति वित्तिछाछेयं कुणंति ते ॥ १॥ 'उजुपयत्थोत्ति' अयं च ऋजुरेव पदार्थः । एनमेवाह-एतौ द्वावपि प्राणिवधकरणादिवृत्तिव्य
बच्छेदी पापावसमंजसौ वर्तेते एवंभूतः पदार्थोऽविशेषेण सामान्येन । अयमभिप्रायः-धर्मस्यादिपदं दानं दानं दारिद्यनागनम् । जनप्रियकर दानं दानं सर्वार्थसाधनम् ॥ १॥ इत्यादिभिर्वचनैर्नानारूपस्य जनप्रसिद्धस्य शस्त्रादिरूपदानस्य स्वभावत एव पृथिव्यादिजीवहिंसात्मकस्य प्रशंसायां नियमात् साधोर्जीवहिंसानुमतिः सम्पद्यते । तथा; तथाविधशास्त्र. संस्कारात् स्वयमेव कैश्चिद्धर्मार्थिभिः प्रवर्त्यमानस्योक्तरूपस्य दानस्य "वीजं यथोपरे क्षिप्तं न फलाय प्रकल्पते । तथाडपात्रेषु दानानि प्रदत्तानि विदुर्बुधाः ॥१॥” इत्यादिवचनैर्निपेधे क्रियमाणे क्षपणादिलाभान्तरायः सम्पद्यत इति ॥८७७॥