________________
श्रीउपदेशपदे
॥ ३७६ ॥
एवं तवझाणाई कायवंति पयडो पयत्थो यं । छट्टुस्सग्गाईणं करणं ओघेण लोगम्मि ॥ ८७३ ॥
'
एवं प्रागुक्तपदार्थवत् ‘मुमुक्षुणा तपोध्यानादि कर्त्तव्यम्' इत्यत्र प्रकटः स्फुटः पदार्थोऽयं यथा षष्ठोत्सर्गादीनां षष्ठादीनां तपोविशेषाणामुत्सर्गादीनां च कायोत्सर्गकायक्लेशादिलक्षणानां करणं विधानम्, ओघेन सामान्येन समर्थासम र्थादिपरिहारविशेषरूपेण लोकेऽपि धार्मिकजनलक्षणे रूढं वर्त्तत इति ॥ ८७३ ॥ तुच्छावग्गाणंपि हु एत्तो एयाण चेव करणं ति । अकरणमो दट्ठवं अणिट्ठफलयंति वक्कत्थो ॥ ८७४॥ तुच्छा असमर्था बालवृद्धादिलक्षणाः, अव्यक्ताश्चागीतार्थास्तेषां न केवलमितरेषामित्यपिशब्दार्थः, इतो वचनादेषा - षष्ठोत्सर्गादीनां करणं प्राप्तम्, तेषामपि मुमुक्षुत्वात् । इतिः प्राग्वत् । एतच्च तपोध्यानादिकरणमकरणं द्रष्टव्यं तुच्छाव्यक्तादीनाम् । कुतो, यतोऽनिष्टफलदं शक्त्यतिक्रमेण तपोध्यानादिकष्टानुष्ठानस्यार्त्तध्यानत्वेन तिर्यगूगत्याद्यशुभ| जन्महेतुत्वात् । इत्येष वाक्यार्थः ॥ ८७४ ॥
आगमणीए ओ एयाणं करणमित्थ गुणवंतं । एसा पहाणरूवत्ति महावक्कत्थविसओ उ ॥ ८७५॥
आगमनीत्या आगमानुसारेण यत एवं महान् दोषस्तत एतेषां तपोध्यानादीनां करणमत्र धर्माधिकारे गुणवद् गुणावहम् । आगमनीतिश्चेयं - " तो जह न देहपीडा न यावि चियमंससोणियत्तं च । जह धम्मझाणवुड्डी तहा इमं होइ कायबं ॥ १॥” तथा । "कायो न केवलमयं परितापनीयो, मिष्टै रसैर्वहुविधैर्न च लालनीयः । चित्तेन्द्रियाणि न चरन्ति
व्याख्याविधौ वा
क्यमहावा
क्यार्थादि
भेदाः
॥ ३७६ ॥