________________
श्रीउपदे- शपदे
॥३७४॥
वेसविवज्जासम्मिवि एवं बालाइएहिं तं गाउं । तत्तो जुज्जइ गमणं इट्ठफलत्थं णिमित्तेण ॥ ८६३ ॥ है।
व्याख्या
स्वरूपार्थ वेषविपर्यासेऽपि-शत्रुविशेषस्य यो विपर्यासो वैलक्षण्यं परिव्राजकादिलिंगधारणरूपं तत्रापि, किं पुनः शत्रुविशेषे सती
दृष्टान्तात्यपिशब्दार्थः, एवं तत्समीपे पथिपृच्छार्थ गमनं न युज्यते, शत्रोरपि पथिकविश्वासनार्थ तथाविधवेषप्रतिपत्तेः सम्भा- - व्यमानत्वात् । तर्हि किं कर्तव्यमित्याशंक्याह-बालादिकेभ्यो बालवृद्धमध्यमवयःस्थेभ्यः स्त्रीपशुपालभामहादिरूपेभ्य । एकान्तत एव सत्यवादितया सम्भाव्यमानेभ्यस्तं पुरुषं मार्गपृच्छायोग्यं ज्ञात्वा ततस्तदनन्तरं युज्यते गमनम् । किमर्थमित्याह-इष्टफलार्थ इहेष्टं फलं निरुपद्रवमार्गपरिज्ञानं निमित्तेन मनःपवनशकुनादिनाऽनुकूलेनेति ॥ ८६३ ॥ __ इत्थं प्रतिवस्तूपमारूपं दृष्टान्तमभिधाय दान्तिके योजयति;एवं तु पयत्थाई जोएज्जा एत्थ तंतणीईए । अइदंपजं एवं अहिगारी पुच्छियवोत्ति ॥ ८६४ ॥ ___ एवं त्वनन्तरोक्तनीत्यैव पदार्थादीन् पदवाक्यमहावाक्यार्थान् योजयेद् दान्तिकतया घटयेत् अत्र प्रस्तुते व्याख्यानविधौ । कथमित्याह-तन्त्रनीत्या श्रुतानुसारेण । तथा ह्यत्र दर्शनतुल्यः पदार्थो न तस्मादिष्टानिष्टयोः प्राप्तिपरिहारौ स्यातां, शत्रोरपि तत्रानिवृत्तेः; शत्रुवेषभेददर्शनतुल्यो वाक्यार्थो, न तस्मादपीष्टसिद्ध्यादिभावः, पूर्वोक्तादेव हेतोः वालाबलादिभ्यस्तदवगमतुल्यस्तु महावाक्यार्थः, सिद्ध्यति चास्माजिज्ञासितोऽर्थः। ऐदम्पर्य तु साक्षादाह-ऐदम्पयेमेतद् IM॥३७४॥ यथा एवं शुद्धोऽधिकारी पन्थानं प्रष्टव्यो नान्यः । इतिः प्रागवत् ॥ ८६४ ॥
TERESSOSSASSISLOSIS