________________
RECORIANSKRISHGACCIGARCANCY
सम्पूर्णः पदार्थादिभिर्दर्शितैर्जायते श्रुतभावस्य शास्त्रपरमार्थलक्षणस्यावगमोऽववोधः श्रोतुः । विपर्यये वाधकमाहइतरथा वन्यथा पुनर्भवति विपर्यासो विपरीतशास्त्रार्थप्रतिपत्तिरूपोऽपि, हु शब्दात् संशयानध्यवसायौ गृह्यते । यदि नामयं ततः किमित्याह-अनिष्टफलप्रदश्च नरकादिदुर्गतिपातहेतुः पुनः स विपर्यासो नियमादवश्यम्भावेन ॥ ८६०॥
अर्थतानेव पदार्थादीन परमतोपन्यस्तदृष्टान्तद्वारेण साधयितुमिच्छुराहःएएसिं च सरूवं अण्णेहिवि वणियं इहं णवरं । सत्तुग्गहणट्ठद्धाणभट्ठतण्णाणणाएण ॥ ८६१ ॥
एतेषां च पदार्थादीनां स्वरूपमन्यैरपि तीर्थान्तरीयैर्वर्णितम् , इह व्याख्यानावसरे नवरं केवलं व्याख्येयसूत्रपदानुपन्यासेनेत्यर्थः । कथमित्याह-शत्रुग्रहनष्टाध्वभ्रष्टतज्ज्ञानन्यायेन कस्यचित् क्वचित् पाटलिपुत्रादौ गन्तुं प्रवृत्तस्य काञ्चिद् विपमा भुवं प्राप्तस्य शत्रुग्रहे प्रवृत्ते नष्टस्य ततोऽध्वभ्रष्टस्य मार्गच्युतस्य यस्तज्ज्ञाने मार्गाववोघे न्यायस्तेनेति ॥ ८६१॥ | अर्थनमेव न्यायं दर्शयति;
दळूण पुरिसमेत्तं दूरे णो तस्स पंथपुच्छत्थं । जुज्जइ सहसा गमणं कयाइ सत्तू तओ होजा ॥ ८६२ ॥ 31 दृष्ट्वा समवलोक्य पुरुषमात्रमज्ञातविशेष पुरुपमेव केवलं दूरे महतान्तरेण व्यवधाने नो नैव तस्य विमर्शकारिणः र पधिकस्य शत्रुभयाद् मार्गाप्रष्टस्य पथिपृच्छार्थ मार्गजिज्ञासानिमित्तं युज्यते घटते सहसाऽपर्यालोच्येत्यर्थः गमनं तत्स"मीपे । कुतो । यतः कदाचिच्छत्रुपिन्नपि यद्यानष्टस्तकः पुरुपो भवति ॥ ८६२ ॥
ASSAGAR