________________
CARECHAKR
Bा मुक मूकपुरुषतुल्यं कस्यचिदर्थस्यावाचकं केवलं व्याख्यानरहितं तत् सूत्रमिति न ततस्तात्त्विककार्यसिद्धिः, किं तु ||3|| |तन्याख्यानादेवेति ॥ ८५५ ॥ अथार्यरूपमेव व्याचष्टेअत्यो वक्खाणंति य एगट्ठा एत्थ पुण विही एसो। मंडलिमाई भणिओ परिसुद्धो पुवसूरीहिं॥८५६॥
अर्थी व्याख्यानमिति चैकार्थावेतौ शब्दौ । अत्र व्याख्याने पुनर्विधिनीतिरेप वक्ष्यमाणो मण्डल्यादिर्भणितः परिशुद्धः सकलदोपविकलः पूर्वसूरिभिर्भद्रवाहुस्वामिप्रभृतिभिः॥ ८५६ ॥ तमेव विधिं दर्शयति;मंडलि णिसिज्ज अक्खा किइकम्मुस्सग्ग वंदणं जेडे। उवओगो संवेगो पसिणुत्तर संगयत्थ त्ति॥८५७ ॥
'मण्डलीति' व्याख्यानमण्डलीभूमिप्रमार्जना, ततो निपद्या आसनरूपा आचार्यस्याक्षाणां च, किन्तु सा सविशेषोच्चा है
कत्तच्या। कृतिकर्म द्वादशावर्त्तवन्दनरूपं देयं व्याख्याने । तत उत्सर्गोऽनुयोगप्रस्थापनाय कायोत्सर 18 समये दातव्यं ज्येष्ठे इति । ज्येष्ठाय ज्येष्ठश्चेह गृह्यते यश्चिन्तनिकां कारयति न तु पर्यायतः, श्रुतज्येष्ठस्यैव तदानीं बहूप
कारित्वात् । तथोपयोगी व्याख्यायमानार्थावधानरूपः । संवेगो वैराग्यम् तथा, प्रश्नोत्तरे-तत्र प्रश्नः श्रोतुरनधिगतार्थपृच्चारूपः, उत्तरञ्च शिष्यपर्यनुयोगगर्तपातोत्तारकारिप्रतिवचनं गुरोः । कीदृशे प्रश्नोत्तरे इत्याह-संगतार्थे युक्तियुक्ते न त्वप्रस्तुताभिधायितासूचके । इतिः व्याख्याविधिसमाप्त्यर्थः ॥ ८५७ ॥ अत्रैव मतान्तरमाह;सीसविसेसे गाउं सुत्तत्थाइविहिणा व काऊण । वक्खाणिज्ज चउद्धा सुत्तपयत्थाइभेएण ॥ ८५८ ॥
A MAY