________________
श्रीउपदेशपदे
॥ ३६९ ॥
इयरेसुंपि य पओसो णो कायवो भवट्ठिई एसा । णवरं विवज्जणिज्जा विहिणा सइ मग्गणिरएण ॥ ८३९ ॥ इतरेष्वपि जिनवचनप्रतिकूलाऽनुष्ठानेषु समुपस्थितदुर्गतिपातफलमोहाद्यशुभकर्मविपाकेषु लोकोत्तरभिन्नेषु जन्तुषु प्रद्वेषो मत्सरस्तद्दर्शने तत्कथायां वाऽक्षमारूपो नो नैव कर्तव्यः । तर्हि किं कर्तव्यमित्याशंक्याह - भवस्थितिरेषा, यतः कर्मगुरवोऽद्याप्यकल्याणिनो न जिनधर्माचरणं प्रति प्रह्वपरिणामा जायन्त इति चिन्तनीयं । तथा, नवरं केवलं विवर्जनया आलापसंलापविश्रम्भादिभिः परिहरणीया विधिना विविक्तग्रामनगरवसत्यादिवासरूपेण सदा सर्वकालं मार्गनिरतेन सम्यग्दर्शनादिमोक्षमार्गस्थितेन साधुना श्रावकेण च । अन्यथा तदालापसंभाषादिना संसर्गकरणे कुष्ठज्वररोगोपहतसंसर्ग इव तत्तद्दोषसंचारादिहलोकपरलोकयोरनर्थावाप्तिरेव । अतएवोक्तम् ; - "सीहगुहं वग्घगुहं उदयं च पलित्तयं च सो पविसे । असिवं ओमोयरियं दुस्सीलजणप्पिओ जो उ ॥ १ ॥” इति ॥ ८३९ ॥
ननु प्रमत्तपाखण्डिजनाकुलत्वात् प्रायो विहारक्षेत्राणामशक्यमालापादिवर्जनमित्याशंक्याहःअग्गीयादाइण्णे खेत्ते अणत्थ ठिइअभावम्मि | भावाणुवघायणुवत्तणाए ते सिं तु वसियवं ॥ ८४० ॥ ‘अगीताद्याकीर्णे' अगीतार्थैरादिशब्दाद् गीतार्थैरपि मंदधर्मैः पार्श्वस्थादिभिस्तीर्थान्तरीयैश्च भागवतादिभिराकीर्णे समन्ताद् व्याप्ते क्षेत्रे, अन्यत्रागीतार्थाद्यनाकीर्णक्षेत्रे दुर्भिक्षराजदौस्थ्याद्युपप्लववशेन स्थित्यभावे सति भावानुपघातेन सम्यक्प्रज्ञापनारूपस्य शुद्धसमाचारपरिपालनरूपस्य च भावस्यानुपघातेन याऽनुवर्तना 'वायाए णमोकारो' इत्यादिरूपानुवृ
-
पाखण्डि - जनाकुलेक्षेत्रे स्थिति
दुष्करत्वम् -
॥ ३६९ ॥