________________
श्रीउपदे
शपदे ॥३६१॥
दुष्षमायामपिचरणत्वम्
PRESISTERESEARSA
अथ प्रस्तुतमेवाधिकृत्याहःइय एयम्मिवि काले चरणं एयारिसाणं विण्णेयं । दुक्खंतकरं णियमा धन्नाणं भवविरत्ताणं॥७९८॥]
इत्येवमेतस्मिन्नपि काले चरणं चारित्रमेतादृशानां [विज्ञेयं कीदृशानां] शंखमुनिसदृशानां विज्ञेयम् । कीदृशमित्याह -दुःखान्तकरं सर्वसांसारिकवाधापहारि नियमाद् अवश्यतया धन्यानां भवविरक्तानां जीवानामिति ॥७९८॥ तथाजे संसारविरत्ता रत्ता आणाए तीए जहसत्तिं । चेटुंति णिज्जरत्थं ण अण्णहा तेसिं चरणं तु॥७९९॥
ये संसारविरक्ताः सत्त्वाः प्राणिनो रक्ता विहितबहुमाना आज्ञायां जिनवचनरूपायां; तथा, तस्यामाज्ञायां यथाशक्ति स्वसामर्थ्यानुरूपं तिष्ठन्ति तदुक्तानुष्ठानपरा भवन्ति । किमर्थ-निर्जरार्थ सर्वकर्मक्षयनिमित्तम् । 'न अन्नहा तेसिं चरणं तु' तेषामेव चरणमस्खलितरूपं विज्ञेयं । न नैवान्यथा संसाराविरक्तानामाज्ञायामसक्तानां यथाशक्ति तत्राकृतावस्थानानामनिर्जरार्थिनां चरणं स्यादिति ॥ ७९९ ॥ अधुना ये कर्मगुरवः प्राणिनो दुष्षमाकालादीन्यालम्बनान्यालम्ब्य सहिष्णवोऽपि तथाविधजनाचरितं प्रमाणीकृत्य निषिद्धसेवां कुर्वन्ति, तेषामपायं दर्शयति;मारेंति दुस्समाएवि विसायओ जह, तहेव साहूणं । णिकारणपडिसेवा सवत्थ विणासई चरणं ॥८००॥ मारयन्ति प्राणांस्त्याजयन्ति दुष्षमायामपि, न केवलं सुपमायामित्यपिशब्दार्थः, विषादयस्तालपुटशस्त्रवह्यादयो
इयमपि गाथा न कचनादर्शपुस्तकेपूपलब्धा, टीकामुपजीव्य त्वत्रोपनियता ।
SE
॥३६१॥