________________
जनप्रसिद्धस्योपयोगस्य निर्मलता तस्याः सकाशादनेपणीयविज्ञानमशुद्धभक्तपानाद्यववोधो भावयतीनां यथा जायते परिशुद्धमस्खलितरूपं, तथैवात्रापि यतनाविषये विज्ञानं परिशुद्धं विज्ञेयमिति ॥ ७७५ ॥ ननु सर्वत्र धर्मार्थिनो लोकस्य तदपाकादिप्रवृत्तावनेपणीयबाहुल्येनैपणीय विवेकाद् दुष्करं तत्परिज्ञानं कथमिदं दृष्टान्ततयोपन्यस्तमित्याशंक्याहः| सुत्ते तह पडिवंधा चरणवओ न खलु दुल्लहं एयं । नवि छलणायवि दोसो एवं परिणामसुद्धीए ॥ ७७६॥ सूत्रे आगमे पिण्डनिर्युक्त्यादौ, तथेति वक्तव्यान्तरसमुच्चये, प्रतिबंधादत्यादराच्चरणवतो जीवस्य न खलु नैव दुर्लभं दुष्करमेतदनेषणीय विज्ञानम् । न च च्छलनायामपि व्यंसनारूपायां दोपोऽपराधोऽनेपणीयग्रहणरूपः सूत्रप्रतिवन्धात् | परिणामशुद्धेरन्तःकरणनैर्मल्यादिति ॥ ७७६ ॥ अत्रैव व्यतिरेकमाहः
| जयणाविवजया पुण विवजओ नियमओ उ तिपि । तित्थग राणाऽसद्धाणओ तहा पयडमेयं तु ॥ ७७७॥
यतनाविपर्ययाद् उक्तलक्षणा यतना; विपर्ययो व्यत्ययः स्वरूपहानिरित्यर्थः, नियमतस्त्वेकान्तभावादेव त्रयाणामपि सम्यक्त्वादीनाम् । कुत इत्याह- तीर्थकराज्ञायाः 'जयणा उ धम्मजणणी' इत्यादिकाया अश्रद्धानतोऽरोचनात् । तथा तत्प्रकाराद्, न हि रोचमानां यतनामुल॑ध्य कश्चिदन्यथा व्यवहर्तु प्रवर्त्तते, प्रवर्त्तते चेत् तर्हि तस्य तत्र यतनायां न श्रद्धानमस्तीति प्रकटमेतदिति । न हि लोकेऽप्युल्लंघ्यमानोऽर्थो गौरवपदमापद्यत इति ॥ ७७७ ॥ तथा;जं दवखेत्तकालाइ संगयं भगवया अणुट्ठाणं । भणियं भावविसुद्धं निष्फज्जइ जह फलं तह उ ॥७७८॥