________________
शपदे
आज्ञारहस्यकथनम्
श्रीउपदे- यद्यस्माद् द्रव्यक्षेत्रकालादिसंगतं तत्तद्रव्यक्षेत्रकालभावानुकूलं भगवताऽर्हताऽनुष्ठानमनपानगवेषणादिरूपं भणितं
* भावविशुद्धमौदयिकभावपरिहारेण क्षायोपशमिकभावानुगतम् , अत एव निष्पद्यते यथा फलं ज्ञानाद्याराधनारूपं, तथा
तथैतदनुष्ठानं भणितं, सम्यगुपायत्वात् ॥ ७७८ ॥ अत एवाह;॥३५८॥
नवि किंचिवि अणुणातं पडिसिद्धं वावि जिणवरिंदेहि। तित्थगराणं आणा कज्जे सच्चेण होयवं॥७७९॥
नापि नैव किञ्चिद् मासकल्पविहाराद्यनुज्ञातमेकान्तेन कर्त्तव्यमेवेत्यनुमतं, प्रतिषिद्धं वाप्येकान्तेन वारितं न, यथा न विधेयमेवेदमिति जिनवरेन्द्रैः ऋषभादिभिस्तीर्थकरैः । तर्हि किमनुज्ञातं तैरित्याह-तीर्थकराणामियमाज्ञा यथा कार्ये सम्यग्दर्शनाचाराधनारूपे सत्येनाशठपरिणामेन भवितव्यमिति ॥ ७७९॥ तथामणुयत्तं जिणवयणं च दुल्लहं भावपरिणतीए उ।जह एसा निप्फजति तह जइयत्वं पयत्तेण ॥ ७८० ॥ ___ मनुजत्वं मनुष्यजन्मलक्षणं, जिनवचनं च सर्वज्ञशासनं दुर्लभं दुरापं वर्त्तते । प्रागुक्तैरेव चुल्लकादिभिर्दृष्टान्तैः । ततः
किं कर्त्तव्यमित्याशंक्याह-भावपरिणत्या त्वन्तःकरणपरिणामेनैव न तु बाह्याद्यनुष्ठानेन भावपरिणतिशून्येन, तस्यात्यहै न्तफल्गुत्वात् । यथोक्तं "तात्त्विकः पक्षपातस्तु भावशून्या च या क्रिया । तयोरन्तरमुन्नेयं भानुखद्योतयोरिव ॥१॥
खद्योतकस्य यत्तेजः, तदल्पं च विनाशि च । विपरीतमिदं भानोरेवमत्रापि भाव्यताम् ॥२॥" किमित्याह-यथैषाऽऽज्ञा निष्पद्यते तथा यतितव्यं प्रयत्नेनेति ॥ ७८० ॥ आज्ञानिष्पत्त्यर्थं च यत् कर्त्तव्यं तद्विशेषेणाह:
SANGRAHASAGASAGARATHISRUS
CALCCESSSSSSSSSSSS