________________
| ग्रन्थोकापवादलक्षणया विपदि द्रव्यक्षेत्रकालभाववैधुर्यलक्षणायामापदि, न पुनर्गुरुलाघवालोचनशून्या परमपुरुषलाघवकारिणी संसारामिनन्दिजनासेविता प्रवृत्तिर्यतनेति ॥ ७७१ ॥ आह- द्रव्याद्यापदि यतना सम्यग्दर्शनादिसाधिकेत्युक्ता । न च च्छद्मस्थेन यतनाविषया द्रव्यादयो ज्ञातुं शक्याः । कुत इति चेदुच्यते;
जं सानुबंधमेवं एवं खलु होति निरणुबंधंति । एवमइंदियमेवं नासवण्णू वियाणाति ॥ ७७२ ॥
यद्यस्मात् सानुबंधमव्यवच्छिन्नमवाहं सम्यग्दर्शनादि, एवं गुरुलाघवालोचनया विरुद्धेष्वपि द्रव्यादिषु सेव्यमानेषु सन्मु, एवं गुरुलाघवालोचनामन्तरेण नो सेव्यमानेषु द्रव्यादिषु खलुर्वाक्यालंकारे, भवति निरनुवन्धं समुच्छिन्नोत्तरोतरप्रवाहं सम्यग्दर्शनाद्येव । इत्येतत् पूर्वोक्तं वस्त्वतीन्द्रियं विषयभावातीतम्, एवमुक्तप्रकारवान् नैवासर्वज्ञः प्रथमतो विजानाति निश्चिनोतीति । अतीन्द्रियो ह्ययमर्थो यदित्थं व्यवह्रियमाणे सम्यग्दर्शनादि सानुबन्धमित्थं च निरनुबन्धं | सम्पद्यते इति कथमसर्वज्ञो निर्णेतुं पारयतीति ॥ ७७२ ॥ इत्थमाक्षिप्तः सूरिराह; -
तत्रयणा गीओऽवि हु धूमेणग्गिंव सुहुम चिंधेहिं । मणमाइएहिं जाणति सति उवउत्तो महापन्नो ॥७७३ ॥
तद्वचनात् सर्वज्ञशासनाद् गीत इति गीतार्थो यथावदवगतो त्सर्गापवादशुद्धसर्वज्ञवचनगर्भः साधु विशेषः, किं पुनः सर्वज्ञ इत्यपिशब्दार्थः; दृष्टान्तमाह – धूमेनाग्निमिव सूक्ष्मचिहैः सूक्ष्मैः स्थूलमतीनामगम्यैश्चि है रासेवकासेवनीयद्रव्यास्थाविशेपलक्षणैः करणभूतैर्जानातीति सम्बन्धः । कीदृशः सन्नित्याह - मन आदिभिर्मनोवाक्कायैरित्यर्थः, सदा सर्व