________________
श्रीउपदेशपदे
॥ ३५६ ॥
जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चैव । तव्वुड्डिकरी जयणा एगंत सुहावहा जयणा ॥७६९॥ यतना पुनर्वक्ष्यमाणलक्षणा धर्मजननी प्रथमत एव धर्मप्रसवहेतुः । यतना धर्मस्य श्रुतचारित्रात्मकस्य पालनी उपद्रव निवारणकारिण्येव । तद्वृद्धिकरी धर्मपुष्टिहेतुर्यतना, किं बहुना, एकान्तसुखो मोक्षस्तदावहा तत्प्रापिका यतनेति ॥७६९ ॥ एतदपि कुत इत्याह
जया
माणो जीवो सम्मत्तणाणचरणाण । सद्धाबोहासेवणभावेणाराहओ भणिओ ॥ ७७० ॥ यतनायां वर्त्तमानो जीवः सम्यक्त्वज्ञानचरणानां प्रतीतरूपाणां श्रद्धावोधासेवनभावेन, भावशब्दस्य प्रत्येकमपि सम्बन्धात्, सन्मार्गश्रद्धाभावात्, जीवादितत्त्वावगमभावात्, सम्यक्क्रियासेवन भावाच्च कथञ्चित् परिपूर्णरूपाणामाराधको भणितो जीवो जिनैरिति ॥ ७७० ॥ एतदपि कुत इत्याह
जीए बहुयतरासप्पवित्तिविणिवित्तिलक्खणं वत्थु । सिज्झति जयणाए जओ सा जयणाणाइ विवइम्मि
यया कयाचित् तत्तद्रव्यक्षेत्रकालभावान् अपेक्ष्य चित्ररूपत्वेन प्रवृत्तया बहुकतरा सत्प्रवृत्तिनिवृत्तिलक्षणं बहुकतरायाः सुवहोर्यतनाकालभाविन्या असत्प्रवृत्तेः शास्त्रनिषिद्धाचरणरूपायास्तथाविधग्लानदुर्भिक्षकान्ताराद्यवस्थाबलसमायातायाः सकाशाद् या निवृत्तिरात्मनो निरोधस्तलक्षणं स्वरूपं यस्य तत् तथा वस्तु सम्यग्दर्शनाद्याराधनारूपं सिद्ध्यति निष्पद्यते चेष्टया परिमिताशुद्धभक्तपानाद्यासेवनारूपया । यतो यस्मात् कारणात् सा चेष्टा यतना, आज्ञया निशीथादि
आज्ञारहस्यकथनम्
॥ ३५६ ॥