________________
विहाराभावे वसीसंथारयाण परियत्तो । पडिमासु असामत्ये दवाइअभिग्गहासेवा ॥ ४४७ || एसणविसए अ सण्हं गुरुलाघवमागमाणुसारेण । णाऊण तनुं जावइ ओमगिलाणादवत्थासु ॥ ४४८ ॥ सुत्तविहिणाऽववाएवि वट्टमाणो ण वाहए चरणं । भणिओ तयत्थमेव हि जम्हा एसो जिणिंदेहिं ॥ ४४९ ॥ कारणकयंपि कम्मं आलोयणणिंदणाहिं गुरुमूले । सेवि - यपायच्छित्तो सोहइ एसो महासत्तो ॥ ४५० ॥ एवं कलावईवि य समणी तक्कालजोगमणुचरइ । सामण्णमणण्णमणा पममाइसयं परिवहंती ४५१ ॥
एतत्कथानकस्यैतदन्तस्य द्वात्रिंशत्संग्रहगाथाः सुगमार्था एव । परं ' तीए भाइनियंगयपेसणमच्चंतगमिइ रन्नोत्ति तस्याः कलावत्या भ्रात्रा जयसेनकुमारेण निजाङ्गदयोः प्रेषणमत्यन्तमुत्कृष्टमिदं प्राभृतमिति कृत्वा राज्ञः शंखस्य विहि| तमिति । 'गुधिणि विसज्जगाणं हत्थे देवंगमाइयाणं चत्ति गुर्विणी विसर्जयन्ति श्वशुरकुलाद् मोचयन्ति ये ते गुर्बिणीवि| सर्जकास्तेषां हस्ते देवदुप्यादीनां च प्रेषणं कृतम् । 'सयगहणं' ति स्वयमेवाङ्गदादीनां देव्या ग्रहणं कृतम् । 'अन्नमिणं'ति अन्यत्तु द्वितीयं पुनरिदं निमित्तमिति । 'पट्टवणं ति प्रेपणं प्रागुक्ताभिप्रायेणाटव्यां तस्याः कृतम् । 'आगयाणंति' आकारणेन समीपागतानां चण्डालीनामिति । 'नइपइमु ति नदी प्रतिमुखं नदीसंमुखं पततो डिम्भस्य धरणमित्यर्थः । 'देवयकंदणसच्चाहिट्ठाण'त्ति ततस्तया नदीदेवतामुद्दिश्य क्रन्दने विलापे कृते सत्याधिष्ठानात् सत्यस्य शीलव्रतस्य देवताभिरघिष्ठितभावादिति । 'आणायारो सेयं'ति आज्ञाचार आप्तप्रणीतवचनानुष्ठानं श्रेयः कल्याणं वर्त्तते ॥ ७६८ ॥
एतेन च दुप्पमाकालेऽप्याज्ञानुसारिणी यतना समासेवितेति तामेव फलोद्देशेन स्तुवन्नाहः-