________________
उ. प. म.७
उउसमत्राए अंवग अकालदोहलग पाणपत्तीए । विजाहरणं रण्णा दिट्ठे कोवोऽभयाणत्ती ॥ २१ ॥
तस्य च प्रासादस्य चतसृष्वपि दिवारामे पण्णामृतूनां वसन्तग्रीष्मप्रावृशरद्धेमन्त शिशिर लक्षणानां समवायो मीलनं नित्यमेवाभवद् व्यंतरानुभावादेव । एवं च प्रयाति काले कदाचित् 'अंबग'त्ति आम्रफलेण्वकाले आम्रफलोत्पत्य| नवसरे दोहदकः पाणपत्याश्चण्डालकलत्रस्य समुदभूत् । ततो विद्यया आहरणमादानमक्रियत चूतफलानां चण्डालेन तत्रारामे । तदनु राज्ञा श्रेणिकेन दृष्टे फलविकलैकशाखे चूतशाखिनि विलोकिते सति कोपः कृतः । अथाभयस्याज्ञप्तिः चोरगवेपणगोचरा आज्ञा वितीर्णा ॥ २१ ॥
| चोरनिरूवण इंदमह लोगनियरम्मि अप्पणा ठिअओ । चोरस्स कए नहिय वडकुमारिं परिकहिंसु ततश्चरनिरूपणे प्रक्रान्ते सति इन्द्रमहे समायाते लोकनिकरे जनसमूहमध्ये आत्मना स्वयं स्थितक ऊर्ध्वस्थित एव | चोरस्य कृते चोरोपलम्भनिमित्तं 'नट्टिय' त्ति नाव्येन नटने प्रस्तुते सति 'वड्डुकुमारिं'त्ति बृहत्कुमारिकाख्यायिकां पर्यकथयद् निवेदितवानभयकुमारः ॥ २२ ॥
कथमित्याह ;
काइ कुमारी पड़देवयत्थमाराम कुसुमगहमोक्खो । नवपरिणीयम्भुवगम पइकहण - विसज्जणा गमणं काचित् कुमारी स्त्री 'पइदेवयत्थं' इति पत्युः कृते देवतापूजानिमित्तं ' आरामकुसुम'त्ति आरामे मालाकारस्य संव