________________
MALSECRECALCCTAGRECICLES
एतन्मनुजत्यं, पुनःशब्दो विशेषणार्थः। ततश्चायमर्थः-प्राक् सामान्येन मनुजत्वदुर्लभत्वमुक्तं, सांप्रतं तदेवोपपत्तिभिः साध्यत इति । 'एवं खलु'त्ति एवमेव दुर्लभमेव । कुत इत्याह-अज्ञानप्रमाददोपतः अज्ञानदोपात् सदसद्विवेचनविरहापराधात् प्रमाददोपाच विषयासेवनादिरूपाज्ज्ञेयमवगन्तव्यम् । एतदाविष्टो हि जीव एकेन्द्रियादिजातिषु दूरं मनुजत्वविलक्षणासु अरघट्टघटीयन्त्रक्रमेण पुनःपुनरावर्तते । एतदपि कथं सिद्धमित्याह-यत्कारणाद्दीर्घा द्राधीयसी कायस्थितिः पुनःपुनः मृत्वा तत्रैव कार्य उपादलक्षणा भांणेता प्रतिपादिता सिद्धान्ते एकेन्द्रियादीनां एकेन्द्रियद्वीन्द्रियादिलक्षणानां जीवानामिति ॥ १६॥
तानेवैकेन्द्रियभेदान् पृथिवीकायिकादीन् पञ्चैव प्रतीत्य दर्शयन्नाह;अस्संखोसप्पिणिसप्पिणीउ एगिदियाण उ चउण्हं । ता चेव उ अणंता वणस्सईए उ बोद्धवा ॥१७॥ | 'अस्संखोसप्पिणिसप्पिणीउत्ति प्राकृतत्वादविभक्तिको निर्देशस्तेनासंख्याता उत्सर्पिण्यसवर्पिण्यः । तत्रोत्सर्पयति प्रथदामसमयादारभ्य निरन्तरं वृद्धिं नयति तैस्तैः पर्यायैर्भावानित्युत्सर्पिणी । तथा च पञ्चकल्पभाष्यं-"समए समएऽणंता
परिवर्ल्डता उ वण्णमाईया। दवाणं पज्जायाऽहोरत्तं तत्तिया चेव ॥१॥" तद्विपरीता त्ववसर्पिणी। तुरेवकारार्थों भिन्नक्रमस्ततोऽसंख्याता एवैकेन्द्रियाणां, तुरप्यर्थे भिन्नक्रमः, चतुर्णामपि पृथिव्यप्तेजोवायुकायिकानां कायस्थितिर्वोद्धव्येति संवन्धः । 'ता चेव उ' इति ता एव चोत्सर्पिण्यवसर्पिण्योऽनन्ताः वनस्पती तु वनस्पतिकाये पुनर्वोद्धव्या कायस्थितिरु