________________
मनुष्यत्वदुर्लभता।
श्रीउपदे-8
त्कृष्टेति । किमुक्तं भवति? पृथिव्यतेजोवायुकायिकेषु जीवो मृत्वा पुनःपुनरुत्पद्यमान एकैककाये ‘असंख्याता उत्सर्पिण्यवसर्पिणीर्यावदास्ते, वनस्पतिकायिकेषु तु प्राणिपूत्पद्यमानस्ता एवोत्सर्पिण्यवसर्पिणीरनन्ता गमयत्युत्कृष्टतः, जघन्यतस्त्वन्तर्मुहुर्तमेवेति । अथोत्सर्पिण्यवसर्पिण्योः किं प्रमाणम् ? उच्यते-द्वादशारकालचक्रमुत्सर्पिण्यवसर्पिण्यौ । तत्स्वरूपं यथा-दस कोडाकोडीओ सागरनामाण हुंति पुन्नाओ । उस्सप्पिणीपमाणं तं चेवोसप्पिणीए वि॥१॥छच्चेव कालसमया हवंति ओसप्पिणीए भरहम्मि । तासिं नामविहत्तिं अहक्कम कित्तइस्सामि ॥२॥ सुसमसुसमा य सुसमा तइया पुण सुसमदुस्समा होइ । दुसमसुसमा चउत्थी दूसम अइदूसमा छट्ठी ॥३॥ एए चेव विभागा हवंति उस्सप्पिणीइ छ च्चेव । पडिलोमा परिवाडी नवरि विभागेसु नायवा ॥४॥ सुसमसुसमाइ कालो चत्तारि हवंति कोडिकोडीओ। तिणि सुसमाइकालो दुन्नि भवे सुसमदुसमाए ॥५॥ एक्का कोडाकोडी बायालीसाइ जा सहस्सेहिं । वासाण होइ ऊणा दूसमसुसमाइ सो कालो ॥६॥ अह दूसमाए कालो वाससहस्साई एकवीसं तु । तावइओ चेव भवे कालो अइदूसमाए वि ॥ ७॥ इत्यादि । एवं द्वाभ्यामुत्सपिण्यवसर्पिणीभ्यां कालचक्रं द्वादशारं विंशतिसागरोपमकोटाकोटिप्रमाणम् । तत्र च यथोत्तरं कालानुभावस्वरूपं ग्रन्थान्तरादवसेयम् । विकलेन्द्रियाणां पञ्चेन्द्रियतिरश्चां मनुष्याणां च कायस्थितिरनया गाथया ज्ञेया, यथा-"वाससहस्सासंखा विगलाण ठिई उ होइ बोद्धवा । सत्तह भवा उ भवे पणिदितिरिमणुय उक्कोसा ॥१॥" ॥ १७॥ इति ।
भवतु नामैकेन्द्रियादीनां दीर्घा कायस्थितिस्तथापि किंनिमित्ताऽसाविति वक्तव्यमित्याशयाहा
PRESSRSRSRSRSRSRSRSREG
ROSS
5
॥३३॥