________________
श्रीउपदेशपदे
॥३१४॥
दोषोऽल्पगुणःसंभावनीय इति । अत्र चादित्रिकभंगको यतिधर्मादिभूतोद्गमोत्पादनैषणाशुद्धिविनाशः प्रकल्पस्त्वंपवादः।
गुरुकुलवा४ प्रस्तुतदृष्टान्तविस्तारार्थश्चैवं ज्ञातव्यः-किल कस्यचिच्छवरस्य कुतोऽपि प्रस्तावात् 'तपोधनानां पादेन स्पर्शनं महतेऽन-6 सत्यागा
थाय सम्पद्यते इति श्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः प्रयोजनमजायत । यदाऽसौ निपुणमन्यत्रान्वेषमाणोऽपि तं त्यागगुणान लेमे तदा श्रुतमनेन, यथा-भौतसाधुसमीपे तानि सन्ति, ययाचिरे च तानि तेन तेभ्यः, परं न किञ्चिल्लेभे । ततो- भावभाव/ ऽसौ शस्त्रव्यापारपूर्व तान्निगृह्य जग्राह तानि, पादेन स्पर्श च परिहृतवांस्तेषाम् । यथास्य पादस्पर्शपरिहारो गुणोऽपि त्वम्शस्त्रव्यापारेणापहतत्वान्न गुणः, किंतु दोष एव, एवं गुरुकुलवासद्वेषिणां शुद्धोञ्छादि योजनीयमिति ॥ ६७७॥
आह-यदि शुद्धोन्छादयः क्रियमाणा अपि न कञ्चिद् गुणमावहन्ति किंतु दोषमेव, तत्किमुच्यते-"पिंडं अविसोहिंतो अचरित्ती एत्थ संसओ नत्थि । चारित्तम्मि असंते सवा दिक्खा निरस्थिया" इत्याशंक्याहःणहि एयम्मिवि न गुणोअस्थि विहाणेण कीरमाणम्मि।तं पुण गुरुतरगुणभावसंगयं होइ सवत्थ॥६७८॥
नहि नैवैतस्मिन् शुद्धोञ्छादौ, किं पुनः शेषेष्वनुष्ठानेष्वपिशब्दार्थः, न गुण उपकारः, किंतु गुण एवास्ति विधानेन सर्वज्ञाज्ञापारतंत्र्यलक्षणेन क्रियमाणे। तत्पुनर्विधानं गुरुतरगुणभावसङ्गतं गुरुतराः शुद्धोञ्छादिसकाशादतिमहान्तो M नवनवतरश्रुतज्ञानलाभादयः प्रतिदिनप्रवर्द्धमानातितीव्रसंवेगनिर्वेदफलास्तेषां भावः समुद्भवस्तेन सङ्गतं भवति सर्वत्र 5 सर्वेष्वपि कृत्येषु । यत्र हि नाधिकः कश्चिद् गुणलाभः किन्तु लब्धानामपि गुणानां हानिरुत्पद्यते, तदनुष्ठानमविधिप्रधा-12॥
नमेव बुधैर्बुद्ध्यत इति ॥ ६७८॥ एतदेव समर्थयमान आह;
AR
॥३१४॥