________________
श्रीउपदेशपदे
समितिगुप्तिस्वरूपोपसंहरणम्
॥३११॥
जह चेव सदेसम्मी तह परदेसेवि हंदि धीराणं। सत्तं न चलइ समुवत्थियम्मि कज्जम्मि पुरिसाणं॥६६७॥ • कालोवि य दुब्भिक्खाइलक्खणो ण खलु दाणसूराण।भेदइ आसयरयणं अवि अहिगयरं विसोहेइ ६६८
दयिताकर्णोत्पलताडनवद्-रतिकेलिकालकुपिताभीष्टकामिनीसाक्षेपकरमुक्तकर्णस्थानावतंसितामन्दमकरन्दामोदितम- धुकरकुलावकम्पिसहस्रपत्रप्रहतिरिव सुभटस्य रणसंघट्टसमुद्घटितशौर्यप्रकर्षस्य पुंसो निर्वृति समीहितसमरसम्मईलाभलक्षणं करोति । कीदृशस्येत्याह-प्रभ्वाज्ञया तत्तत्प्रसादप्रदानप्रमोदसम्पादकनायकनिरूपितादेशलक्षणया सम्प्रस्थितस्य परबलविलोलनाय चलितस्य काण्डमपि, किं पुनरुज्ज्वलपुष्पमालादि, लगच्छरीरसंस्पर्शमागच्छत् सत् । समीहितसिद्धिरेव सर्वत्र निवृतिहेतुः स्यात् । समीहितश्च सुभटेन स्वस्वाम्यादेशात् समरसंघट्टे प्रवर्त्तमानेन काण्डादिप्रहार इति कथमसौ न तल्लाभे वृत्तिमान् स्यादिति ॥ ६६६ ॥१॥ यथाचैवेति दृष्टान्तार्थः । स्वदेशे सौराष्ट्रादौ वर्तमानानां तथा परदेशेऽपि मगधादौ कुतोऽपि निमित्ताद् गतानां, हंदीत्युपप्रदर्शने धीराणां धैर्यव्रतभाजाम् । किमित्याह-सत्त्वमवैक्लव्यकरमध्यवसानकरं च जीवपरिणतिविशेपलक्षणम् , न नैव चलति क्षुभ्यति, समुपस्थिते तथाविधविरुद्धजनाध्यारोपितविविधवाघेऽपि कार्ये व्यवहारराजसेवादौ पुरुषाणां पुंसाम् । अयमभिप्रायः-यथा स्वदेशे पूर्वपुरुषपरंपरासमावर्जितजनविहितसाहाय्यभाजि न कार्ये क्वचिन्निपुणनीतिभाजां मरणावसानेऽपि सत्त्वहानिर्भवति, तथा विदेशेऽपि केनाप्यविज्ञातपूर्वापरसमाचाराणां नयनिष्ठुरप्रवृत्तीनां तथाविधव्यसनप्राप्तावपि न सत्त्वभ्रंशः सम्पद्यत इति ॥ ६६७ ॥२॥ कालोऽपि
॥३११॥