________________
श्रीउपदेशपदे
॥ ३१० ॥
*36
एवंविहो उ भावो गुणठाणे हंदि चरणरुवम्मि । होति विसिट्ठखउवसमजोगओ भवसत्ताणं ॥६६३॥
एवंविधस्त्वेवंविध एव व्यसनप्राप्तावपि गुप्तिसमित्यनुल्लंघनरूपो भावः परिणामो भवतीत्युत्तरेण योगः । क्व सतीत्याहगुणस्थाने, हंदीति पूर्ववत्, चरणरूपे चारित्रलक्षणे भवति विशिष्टक्षयोपशमयोगतो विशिष्टो वज्राश्मवदत्यन्त निविडो यश्चारित्रमोहस्य क्षयोपशमः क्षयविशेषस्तद्योगात्, भव्यसत्त्वानां समासन्नीभूतनिर्वृतिगमनानाम् । ये हि निवृत्तचारित्रमोहात्मानो महासत्त्वा मुनयः स्युस्त एव प्राणप्रहाणेऽपि न समितिगुप्तिभङ्गभाजो भवन्तीति ॥ ६६३ ॥ कुत एतदिति चेदुच्यतेःदेहा सामत्थमिव आसयसुद्धी ण ओघओ अन्ना । चरणम्मि सुपुरिसो ण हि तुच्छोवि अकज्जमायरति
देहासामर्थ्येऽपि दुष्कालरोगवार्द्धकादिकारणैर्देहस्य विहितकृत्येष्वसमर्थतायामपि, किं पुनरितरत्रेत्यपिशब्दार्थः, आशयशुद्धिः परिणामनैर्मल्यरूपा न नैवौघतः सामान्येनान्या हीयमाना विपरीतरूपा वा सम्पद्यते । क्व सतीत्याह-चरणे सर्वसावद्यपरिहारलक्षणे । यच्चौघत इत्युक्तं, तत् तथाविधोत्कर्षवशाद् मेघकुमारादीनामिव मनाग् मालिन्यमपि कदाचित् संभाव्यत इति व्यभिचारपरिहारार्थम् । एतदेव समर्थमान आह— सुपुरुषः शान्तदान्तस्वभावः, स च विशेषतः "अस 'त्सङ्गाद् दैन्यात् प्रखलचरितैर्वा बहुविधैरसद्भूतै भूतैर्यदि भवति भूतेरभवनिः। सहिष्णोः सद्बुद्धेः परहितरतस्योन्नतमतेः परा 'भूषा पुंसः स्वविधिविहितं वल्कलमपि ॥ १ ॥ इत्यध्यवसायप्रधानः पुरुषविशेषः, न नैव हिर्यस्मात् तुच्छोऽपि शरीरविभवसहायादिवलविकलतया कृशीभूतोऽपि किं पुनरितरः, अकार्य कुलकलंकादिकारणं कृत्यविशेषमैहिकं पारत्रिकं च
समितिगुतिस्वरूपो
पसंहर
णम्
॥ ३१० ॥