________________
मन्त्रिपंचनैः श्रुतैः । सद्यः सेनापतिर्वाधिं लब्धवान् दुःखनोदिनीम् ॥ ६५७ ॥ ५१ ॥ ततश्च आवृत्तः प्रत्यावृत्तः कुपरिणामात् । अत एवोपशान्तो मुक्ता मुत्कलीकृता साधुमाता ममापि त्वमसि मातेति । तथा सर्व समर्पितं ' से 'तस्य यद्विवोचितमुपकरणं गृहीतमासीत् । उपसंहरन्नाह - वाग्गुप्तिरेवं प्रस्तुतसाधुवच्छेषसाधुभिः कर्त्तव्येति ॥ ६५८ ॥ ५२ ॥ अकारुगुबुदाहरणमुच्यतेः - अध्यप्रपन्नको महाटवीमार्गप्रविष्टः कश्चिद् महासाधुः क्वचित्समये समभूत् । आवामिते गृहीतावासे मति साथै न लभते तत्र सार्थाधिष्ठितायां भुवि स्थंडिलं किञ्चिद्, यत्र साधुसामाचार्यबाधया स्थानादि विधातुं पायते ॥ ६५९ ॥ ५३ ॥ लब्धं चानेन कथमपि स्थण्डिलमेकः पादो यत्र प्रतिष्ठते । तत्र स्थण्डिले स्थितैकपादः नयां रात्रिं यावदासितः तावत्तत्र पादः स्तब्धः सज्जातस्तम्भोऽभूत् ॥ ६६० ॥ ५४ ॥ न च नैवास्थण्डिलभोग: साधुज| नायोग्य भूमिभागपरिभोगलक्षणस्तेन साधुना कृतस्तत्र समये । कीदृशेन सतेत्याह- धीरपुरुपेण सात्त्विकेनेत्यर्थः । ततश्च
प्रशंसा यथाऽहो! माधुरयं दुष्करकारको वर्त्तते, य इत्थमस्थण्डिलपरिहारेण व्यवस्थितः । तथाशक्रप्रशंसाऽसहिष्णोवयेागम संवृत्तः । तथेति समुच्चये । भेषणं हस्त्यादिरूपविकुर्वणेन प्रारब्धम्, तथापि तस्य महापुरुषस्याक्षोभः | क्षोभाभावः सम्पन्नः मम त्रियमाणस्यापि न काचित् कार्यक्षतिरस्तीत्यध्यवसायादिति ॥ ६६१ ॥ ५५ ॥ यदासी भेषितोऽपि न क्षुभितस्तदा शीतमेव ग्रहः, पारवश्यसम्पादकत्वात्, तस्य संपादनं देवेन कृतम् । तत्र चाचलनमङ्गानां शीतधितानाम् । ततो दुष्कृतं प्राग्भवोपात्तमित्थमुपस्थितमिति सम्यक् स्थातुं प्रवृत्तः । ततः सुरवन्दना कायप्रणामरूपा, तथा प्रशंसनमहो धन्योऽसि त्वं, तथाऽतीव लोकेनोत्कर्षः प्रमोदो व्यूढ इति ॥ ६६२ ॥ ५६ ॥ उपसंहरन्नाह;