________________
श्रीउपदेशपदे
॥ ३०९ ॥
'अंतरा चेव' अन्तराले एव गन्तव्यस्थानापेक्षयेति । कश्च स संज्ञापक इत्याशंक्याह - मातापितृभ्रात्रादिः प्रतीतरूप एव । 'परिभावितं च तेन - किं मम इतोऽग्रतो गमनेन, स्वजनदर्शनस्यात्रैव भूतत्वात् ? अतो निवर्त्तनमेव सङ्गतमिति सोऽपि निवृत्तः समं सार्द्ध तैरेव संज्ञापकैरिति ॥ ६५४ ॥ ४८ ॥ स्तेनैश्चरैर्गृहीताश्च ते मुषिताश्च गृहीतमुषिताः सन्तो मुक्ताः संज्ञापकाः । ततस्ते स्तेना ब्रुवते । कथमित्याह - सोऽयं साधुर्योऽस्माभिः साम्प्रतमेव गृहीत्वा मुक्त इति, तत एतद्वचनश्रवणानन्तरं ब्रवीति 'अम्मग'त्ति 'जननी तस्य साधोः सत्का ॥ ६५५ ॥ ४९ ॥ कथमित्याह - किं सत्यमेतद् यदयं युष्माभिर्गृहीत्वा मुक्तः ? 'चौराः प्राहुः - आमेवम् । 'आणेह वेइ तो छुरियं'ति आनयत क्षुरिकामिति ब्रवीति ततो माता; यद्यस्माच्छिनस्तिनं ( ग्रंथाग्रं - १०००० ) ननु निश्चितमेतद्गतदुग्धपायितया सापराधत्वात् पयोधरस्य । ततः किं तवायं भवतीति सेनापतिर्भणति ॥ ६५६ ॥ ५० ॥ ततो माता ब्रवीति — दुर्जन्मजातः - दुष्टेन जन्मना लब्धप्रादुर्भाव एप साधुः, यतो दृष्टा यूयं, तथापि नापि नैव शिष्टं कथितं यथा - मार्गे चौरसेनापतिरस्ति । अतः कथं केन प्रका रेण पुत्र इत्येषोऽथ मम वर्त्तते ? । यो हि पुत्रो भवति, न स मातापित्रादिव्यसनमुपस्थितमुपेक्षते, किन्तु यथाशक्ति निरुद्धयेव । ततः सेनापतिना सविस्मयचेतसा भणितं - कथं नापि नैव शिष्टं भोः साधो ! यथात्र मार्गे चौराः सन्ति ? इत्युक्तेन साधुना धर्मकथा प्रारब्धा, यथा-अस्मिन्ननादौ संसारे जीवानां भ्राम्यतां सताम् । को न बन्धुतया जातः पररूपतया तथा ? ॥ १ ॥ अत एव विवेकाढ्या न स्त्रियन्ति कदाचन । कुत्रापि द्वेषिणो वापि कषायविषनिग्रहात् ॥ २ ॥ तथा; बहु शृणोति कर्णाभ्यामक्षिभ्यां बहु पश्यति । न च दृष्टं श्रुतं भिक्षुः सर्वमाख्यातुमर्हति ॥ ३ ॥ इत्यादिभिः सुधा
वाग्गुतावुदाहरणम्
॥ ३०९ ॥