________________
श्रीउपदे
श
शपदे ॥ २९०॥
मारब्धः। निश्चिंतस्तस्य संवृत्तो मातुलः । एवं व्रजति काले वितारणा च विप्रतारणा पुनलॉकेन परव्यसनसुस्थितेन कर्तु- संग्रह8 मारब्धा तस्य । कथमित्याह-नास्ति न विद्यते तवात्र गृहे दूरं वृद्धि गतेऽपि किश्चिदाभाव्यम् । गृहकर्मसु मन्दादरे हैं गाथार्थःजाते ब्रवीति प्रतिपादयति मातुलो लब्धवृत्तान्तस्तमिह ग्रामे स्वभावत एव परगृहतप्तिकारके उच्छृखलमुखे ॥ ६२०॥ ॥१३ मा शृणु लोकस्य वचनानि त्वं, परगृहभञ्जनप्रियत्वाल्लोकस्य । यतो दुहितरस्तिस्रः सन्ति मम गृहे । तासां या ज्येष्ठतरा सर्वज्येष्ठा तां प्राप्तयौवनां तव दास्यामि । एवं मातुलेनोक्तः 'करें'त्ति कर्नु कर्म प्रकृतः प्रवृत्तवान् । कालेन प्राप्तश्च वीवाह इति ॥ ६२१ ॥ १४ ॥ सा ज्येष्ठा दुहिता तत्र विवाहे पित्रा समुपस्थापिते तं नन्दिपेणं तुच्छौष्ठच्छदमुखतया समुद्घाटदशनं चिपिटनाशिकमतिगभीरनेत्ररन्ध्रममनोहरस्वरमतिलम्बोदरसंक्षिप्तवक्षाप्रदेशं विकटपादपातमलिगवलव्यालकालकायं साक्षादपुण्यराशिमिव निभाल्य नेच्छति परिणेतुम् ; भणितवती च यदि मामनेन परिणाययिष्यथ तदा नूनं मया मर्त्तव्यमिति । ततोऽसौ विखिन्नो मन्दादरश्च गृहकर्मसु संवृत्तः । मातुलो ब्रवीति-यदि नामानया दुहित्रा नाभिलपितस्त्वं तथापि द्वितीयां दुहितरं दास्यामि । सापि च दुहिता तथैव प्रथमदुहितृवत् तं नेच्छति । 'तइयत्ती' | इति, अतस्तृतीया प्रतिपन्ना, इत्येवं प्रथमदुहितद्वयवत् सापि नेच्छति तृतीया ॥ ६२२॥ १५॥ ततो निर्विण्णोऽसौ गृहवासाद् नन्दिवर्द्धनाचार्याणां सकाशे निष्क्रान्तः प्रतिपन्नव्रतः सम्पन्नः । ततोऽसौ पूर्वभवविहितानां दुष्कृतानामुदयं तपो विना नान्यो विनाशहेतुः समस्तीति मन्यमानो जातः पष्ठक्षमकः । षष्ठं नाम षष्ठभक्तं तपः । तच्च किल भक्तपञ्च-६॥२९०॥ कपरिहारेण पष्ठं भक्तमुपादेयतया यत्र तपसीत्यन्वर्थप्रधानतया उपवासद्वयं, तत् क्षमते सहते यः स तथा । तथा, स्वसा- *