________________
श्रीउपदे
शपदे
|
| प्रभोः - किमस्माभिः सह संघदिष्यते नवेति ? मुनिः प्राह - नापि च जाने नैवाहं जानामि कोऽपि कस्मिन्नभिप्राये वर्त्तत | इति ॥ ६१३ ॥ ६ ॥ सैन्यं - तत्र नगरे वसतां भवतां कथमभिप्रायपरिज्ञानं न संजातमिति ? मुनिः - अव्यापारास्तु लोकव्यापाररहिता एव साधवो वर्त्तन्त इति । सैन्यं - यद्यभिप्रायो न ज्ञायते तर्हि किमिह पुरमध्ये जना जल्पन्ति सन्धिविग्रहयोर्विषये ? मुनिः - अत्रापि जल्पविषयेऽव्यापारोऽहम् । सैन्यं - किं साधनमानं हस्त्यश्वादिसंग्रामाङ्गपरिमा| णम् ? मुनिः - अत्रापि च साधनमानपरिज्ञानेऽव्यापारोऽहमिति ॥ ६१४ ॥ ७ ॥ मुनिरेवाह - श्रूयते कर्णाभ्यां दृश्यते | लोचनाभ्यां किञ्चिच्छब्दरूपलक्षणं वस्तु, शब्दरूपयोर्ग्रहणस्वभावत्वात् तेषां परं सर्वं साध्यते कथ्यते न सावद्यं सपापम्, किन्तु कार्ये समुत्पन्ने निरवद्यमेवः सावद्यं सर्व्वं यद्भवद्भिः पृच्छयत इति । अत एव पठन्ति - "वहुं सुणेइ कण्णेहिं बहुं अच्छीहिं पेच्छए । न य दिडं सुयं वावि भिक्खू अक्खाउमरिहइ ॥ १ ॥” सैन्यं - यद्येवं निर्व्यापारा यूयं, किं तर्हि वसथात्र? मुनिः–ग्लानः साधुरस्मदीयः समस्ति । सैन्यं - किमिह सैन्येऽस्मदीयेऽथ ? अप्रतिबन्धात् क्वचिदप्येकत्र
लनगरादावसंगमात् ॥ ६१५ ॥ ८ ॥ सैन्यं -चारिका हेरिका यूयम् । मुनिः - नैव चारिकाः किन्तु श्रमणा वयम् । सैन्यं - को जानाति कीदृशा यूयम् ? मुनिः - आत्मसाक्षिकः, आत्मा साक्षी यत्रेति समासः स धर्मः, नात्र वस्तुन्यन्यस्य कस्यापि साक्षित्वमस्तीत्येवमुपन्यासः । सैन्यं - न हु नैवेत्थमुत्तरप्रदानेन छुट्यते मुच्यतेऽस्मत्सकाशात् । मुनि:तर्हि यज्जानीथ तत् कुरुध्वम् । इति प्राग्वत् ॥ ६१६ ॥ ९ ॥ सैन्यं - ' कह सत्ति मिय णु'त्ति कथं शक्तिः सामर्थ्यरूपा, मकारोऽलाक्षणिकः । इयं तव, नुर्वितकें, ततो वितर्क्यतेऽस्माभिः कथश्चित्तव शक्तिरुत्पन्ना यथा यदस्माभिः करिष्ये
संग्रह - गाथार्थ:
॥ २८९ ॥