________________
1
परिणतिरूपम्येपदपि हु पातनमजायत । कुतः । यतो मिथ्यादुष्कृतं मे समस्तु इत्युक्तं तेन, जीवानां मक्षिकामण्डुकिका| लक्षणानां पीडा बाधा वर्त्तत इति कृत्वा ; अपि च, उत्थानं संवृत्तगात्रेणैवमीर्यासमितिप्रधानतया तेन कृतम् । तत आभोगे तद्भावोपलम्भे कृते देवतोप एव जातः, न पुनरुदासीनतादिभावान्तर भाव इति ॥ ६११ ॥ ४ ॥ तदनन्तरं | महरणं मक्षिकामण्डुकिकानां गजस्य च देवेन विहितम् । रूपदर्शनं चलत्कुण्डलस्योरःस्थलविसारिस्फारहारस्य वहलकिरणजालविलुप्ततमः पटल विकटमुकुटस्य निजरूपस्य दर्शनमकारि । ततो वरदानं वरं वृण्वत्येवंलक्षणमुपस्थापितम् । | अनिच्छा निःस्पृहता वरदत्तसाधुना व्यक्तसंग इति कृत्वा । ततो देवो भक्तिभरस्तच्चरणकमलमभिवन्द्य सम्पन्नसन्तोषः स्वस्थानं जगाम । वरदत्तसाधुनापि ततो गमनं पूर्वप्रवृत्तविचारपथे एवालोकनं च जीवानां कृतम् । अविस्मयश्च 'साक्षादेव देवो मया दृष्टः' एवंरूपस्य विस्मयस्याकरणम् । योगान्तरसंप्रवृत्तिश्च विचारगमनापेक्षया यद्योगान्तरं स्वाध्यायाध्या| नादिलक्षणं तत्र सम्यक् प्रवर्त्तनं च जातमिति ॥ ६१२ ॥ ५ ॥ अथ द्वितीयसमित्युदाहरणमाहः -- किल कचिन्नगरे संगतनामा साधुर्निसिलसाधुसामाचारीकरणपरायणः । तथा - " जा य सच्चा अवोत्तवा सच्चामोसा य जा मुसा । जा य बुद्धेहिं णाइण्णा ण तं भासेज्ज पण्णवं ॥ १ ॥ एवंरूपायां वाक्यशुद्धौ स्वभावत एवोपयुक्तः समवतिष्ठत । स चान्या कारणिको ग्लानप्रतिजागरणकारणवान् रोधके परैः सर्वतो नगरनिरोधलक्षणे कृते 'भिक्खनिग्गमण' त्ति नगर एव | मध्ये पुष्कलायां भिक्षायां लभ्यमानायामपि प्रतिबन्धपरिहारार्थं वहिः शत्रुराजसैन्ये भिक्षार्थं निर्गमनं कृतवान् । ततः | पृच्छा सैन्यलोकेन कृता-कुतो भवन्त इहागताः ? मुनिः प्राह - नगरात् । सैन्यलोकः प्राह - कोऽभिप्राय एतन्नगर