________________
श्रीउपदेशपदे
॥ २८८ ॥
सीतग्गहसंपाडणमचलमंगाण दुक्कडं सम्मं । सुखंदणा पसंसण अईव लोगेणमुक्करिसो ॥ ६६३ ॥ ५६ ॥
तत्र वरदत्त साधुः क्वचित् सन्निवेशे वरदत्तनामा मुनिरीर्यासमितस्तथास्वाभाव्यादीर्यासमितावत्यन्तमुपयुक्तः सर्वदा समभूत् । तत्र मुनिवृषभे नित्यं समाहितात्मनि सुगृहीतनामधेये शक्रस्य सौधर्मदेवलोकाधिपतेः स्वभावत एव निष्पन्नगुणेषु गुणिषु प्रवृत्तदृढानुरागस्य कथमपि विपुलेनावधिना मनुष्यक्षेत्रमवलोकमानस्योपयोगो वरदत्तसाधुगोचरं ज्ञानं समभवत् । दृष्ट्वा च तस्येर्यासमितावत्यन्तनिश्चलत्वं, देवसभायां सुधर्मानामिकायां तेन प्रशंसा प्रवर्त्तिता, यथा-अहो ! एष वरदत्तसाधुः सदेवमनुजासुरेणापि जगता नेर्यासमितेः क्षोभयितुं शक्यते । तत्र च मिथ्यादृष्टेरेकस्य देवस्याश्रद्धानं शक्रप्रशंसितगुणेषु समजनि, यथा सुष्धूक्तं केनापि - " जा इच्छा सा कीरइ बोल्लिज्जइ जं मणस्स पडिहाइ । इयरे जणे न संका पहुत्तणं तेण रमणीयं ॥ ६०८ ॥ १ ॥ तत आगम इहावतरणलक्षणस्तस्य बभूव । ततो विचारपथे वहिर्भूमिलक्षणे मक्षिकामण्डुकिकानां पुरतोऽग्रतो मार्गे निरन्तरं विकुर्वणं कृतम् । इति प्राग्वत् । पश्चाच्च पश्चिमभागे पुनर्गजविकुर्वणा — गजस्य गिरिशिखरानुकारिणः पवनजवनवेगस्य दूरं समुत्सारितकरस्य विकुर्वणा विरचना कृता । ततो बोलः कलकलो हस्तिपालकेन कृतः, यथा - शीघ्रमपैहि मार्गादपसर, अन्यथा ते न जीवितव्यमस्ति ॥ ६०९ ॥ २ ॥ ततोऽक्षोभस्य त्यक्तसकलत्रासस्येर्यालोकनेन गम्यमानमार्गावलोकनरूपेण गमनमसंभ्रांतकमविह्वलं तथा चैव यथा गजविकुर्वणात् प्राक् । ततो गजग्रहे क्षेपणं गजेन कराग्रेण गृहीत्वा गगनतले दूरमुत्क्षेपणं, पातनं च भूमितले कायस्य 'सयराहं ति समकमेवोत् क्षेपणपातनयोरत्यन्ताव्यवधानेन भावात् समकमित्युक्तम् ॥ ६१० ॥ ३ ॥ व्यवच्छेद्यमाह-न तु नैव भावस्येर्यासमिति
संग्रह - गाथार्थ:
॥ २८८ ॥