________________
HERENT
प्रति सः । ततो विवादो जातः । भृतकेन राज्ञः शिष्टो निवेदितो दुहितृदानव्यवहारः । इति प्राग्वत् । तथा, देवी पक्षिणः साक्षिणो वर्तन्ते, इति पक्षिमाक्ष्ये प्रतिपादिते नृपानुज्ञातेन तेन गत्वा ते आनीताः । विस्मयश्च राज्ञः संवृत्तः। ततः 'विरलंति संनिहितजनापसारणे कृते । ततः पृच्छा च प्रवृत्ता, यथा-॥ ५८१॥ ३२ ॥ कुत्र साक्ष्यमेपाम् ।। ततश्छगणे गोमये कृमिदर्शनेन-चप्रान्तभागेन कृमीणां कीटकानां भोजनार्थ निक्षिप्तानां दर्शनमन्येषां परिपार्श्वतोऽव-1 स्थितानां स्वत एव क्रियमाणं पश्यतां प्रयोजनं तेन तैः साक्ष्यं कृतम् । कथमित्याह-ईदृशैः कर्मभिरलीकभापणरूपैरेवं-15 स्पगोमयभक्षकैर्भयत इति । ततो धाटितश्चासौ धिक्कारहतश्चेति धाटितधिक्कारहतो दृष्टः सोमाजनकलोकेन । ततो | द्वितीयेऽपि च व्रते मुच्यमाने निषेधः कृतः॥ ५८२ ॥ ३३ ॥ एवमेव तिलस्तेन:
॥ एवमेव तिलस्तेनः स्नानाः कथमपि हट्टसंवों गोप्रेरितः || मंस्तिलपतितः-तिलराशिमध्ये निमग्नः तैस्तिलैः समं तथाई एव गतो गेहमिति ॥५८३॥ ३४ ॥ जनन्या प्रच्छाद्य तिलान् । लोचयित्वा निस्तुपीकृत्य प्रतिदत्तखादितो मयूराण्डः कृतः। ततो मयूराण्डकभक्षणात् तस्मिंस्तिलस्तैन्ये प्रलग्नो वहादरोधी
नः, तथा सानार्द्रप्रकारेण पुनरिति पुनःपुनर्हततिलनिकरः ॥ ६८४ ॥ ३५ ॥ एवमेव तिलवच्छेपेऽपि वस्त्रादौ प्रलग्नः । गृहीतो राजपुरुपैः । ततो जनन्याः खादितः स्तनखण्डः । परिच्छिन्नकः कृत्तहस्तपादावयव इत्येवंरूपो दृष्टः । निवारणा नवरं केवलं तृतीयेऽपि व्रते मुच्यमाने कृते ॥ ५८५ ॥ ३६॥ एवं घोटकघटिता घोटकरक्षानियुक्तपुरुषविशेषप्रसक्ता दुःशीला काचिन्महिलामोहात् कामोन्मादाद् महापापा। कीदृशी विनिपातितभर्तृका परिष्ठापयन्ती तकं भर्तारं घोरा रौद्र