________________
संग्रहगाथार्थ:
शपदे
श्रीउपदे- 15 च तेन छईय मुञ्च इमं धर्मम् । तयोक्तं-गुरुमूले मोक्तव्यः। ततस्तेषां तत्र गुरुमूले नयनमारब्धम् ॥ ५७३ ॥ २४॥
, कुशलया सोमया चिन्तितमिदं, यथा-संमुखवचनं प्रत्युत्तरदानरूपं गुरूणां मातापित्रादीनां नो नैव युक्तम् । तथा च
तत्र प्रवर्तिनीदर्शनेनैतेषामपि गुरूणां बोधिभविष्यति ॥ ५७४ ॥ २५॥ गच्छद्भिश्च तैदृष्टं वणिग्गृहे वैशसमसमंजसं ॥२८२॥
महाघोरम् । किं तदित्याह-हिंसाऽनिवृत्तेर्विजृम्भितं कुलविनाशकरम् ॥ ५७५ ॥ २६ ॥ दुःशीलाऽगारी गृहस्था । सा च भृतके लग्ना। तया च सुतघातनं त्वया विधेयमिति तेन सह संगारः संकेतः कृतः। ततःप्रेषणं ग्रामे तयोयौंगपद्येन कृतम् । सुतेन तद्वातनम् । ततः केवलागमनं केवलस्यैव सुतस्य गृहागमनमजनीति ॥ ५७६ ॥ २७ ॥ तयाप्यगार्या तस्य वधनं घातः कृतः शिलया प्रतीतरूपया, वध्वा तस्या असिकेन । चुल्लीपुत्रकेण दुहितुर्निर्वेदनमित्यर्थः। हा किमेतदिति बोलः कोलाहलो जातः॥ ५७७ ॥२८॥ लोकमिलने वचनं प्रवृत्तं त्वयापि किं न एषा वधूर्मातघातिका घातिता? साऽऽह-हिंसाया निवृत्ताऽहम् भणितं च जनेन एतदनिवृत्तिहिंसाया अविरमणमहो पापेति ॥ ५७८ ॥ २९ ॥ तया सोमया भणितौ च गुरू मयाप्येकं तावद् व्रतमिदं हिंसानिवृत्तिरूपं गृहीतं वर्त्तते, तत्किं मोक्तव्यमिदमिति पृष्टे तावाहतुःन नैव मोक्तव्यम्-आस्तामिदं व्रतमिति ॥ ५७९ ॥ ३०॥ एवं यथा पथि गच्छद्भ्यां गुरुभ्यां कुटुम्बमारी दृष्टा; तथा, विनष्टवहनः कश्चिन्नौवित्तको द्वीपान्तरे मन्दः सन् भृतकेन कर्मकरेण सुष्ठु सादरं प्रतिजागरितः, तुष्टश्चासौ तं प्रति दुहितदाता वणिक् सम्पन्नः, स च भृतकेनोक्तः-विवादे कथंचित्प्रवृत्ते जीवकाः पक्षिविशेषाः, ते चाभिज्ञाश्च साक्षिणः तेभ्यो विज्ञेयो भवान् मिथ्याभाषी व्यवहारे इति ॥ ५८०॥ ३१॥ गृहागतश्च महेलादिवशाद् विलोट्टो दुहितदानं
॥२८२॥