________________
कृत्वा, हसिध्यति च मूर्खलोकः कार्यपरमार्घमजानानो न नैव कार्यतः कार्यमपेक्ष्य स गणयितव्य इति ॥ ५५५ ॥ ६॥ प्रतिपन्नमिदं तेन तत्पतिना। गतश्च लब्धश्च स झुंटणकः, ततः श्वशुरकुलात्, नवरं केवलं 'अप्पाहित्ति शिक्षितश्च वहयो बहून् वारान् तैरपि श्वशुरकुलमानुपैः, तथा तत्प्रकारं यल्लोकहसनं तत्र विषयभूते ॥ ५५६ ॥७॥ आगच्छंश्च १ ततः श्वशुरकुलादु हस्यमानो मार्गजनेन कथंचिद् महतो लज्जाभरात् तुच्छीभूतानयनोत्साहः सम्प्राप्तो निजपुरव
हिरंगदिकानगरवहिःप्रदेशे मुक्तः आरामे, तथाप्रविष्टस्तु आराममुक्तपशुरेव च गृहे प्रविष्ट इति ॥ ५५७॥८॥ | भणितश्च तया पत्न्या क स झुंटणकः? स प्राह मुक्तो वहिरिति । सा प्राह हन्त भव्योऽसि त्वम्, यतो मृतकोऽसावे
तावता कालेन, स्तोकफलं कम्बलरत्नं भविष्यति । न च लाभो यथा पूर्व तथा तु तथा पुनरेतस्य पशोरिति ॥५५८॥९॥ | प्रस्तुते योजयन्नाह--झुंटणतुल्यः प्रस्तुतपशुसदृशो धर्मः शुद्धः पारमार्थिकः । एतस्मिन् धर्मे योजयितव्यमिदं झुंटणगतमुदाहरणं सर्वमशेपं निजबुद्ध्या । कथमित्याह-अशुभशुभफलत्वादिति अशुभशुभफलत्वेन, आदिशब्दात्पुनदुर्लभत्वा
दुर्लभत्वाभ्यामिति । इदमुक्तं भवति-यादशो धनपुत्रस्तादृशोऽयं गुणदरिद्रः संसारी जीवः । यथा च पत्नीवचनोत्साहाहै| झुंदणलाभार्थ श्वशुरकुलमसौ जगाम, लब्धांश्च तं तत्र, एवं मोहनीयक्षयोपशमात् श्वशुरकुलतुल्यं गुरुकुलं झुंटणतुल्यं
धर्म लधुं कश्चिद् गच्छति, लभते च तं तत्र । यथाऽसौ तथाशिक्षितोऽपि मन्दभाग्यतया लोकोपहासभयादन्तराल एव स्वशरीराद् उत्संघट्टीकृत्य मुमोच, तथायमपि दीर्घसंसारितया लब्धमपि धर्म तथाविधलोकाविज्ञातभावभयादकृतकार्यमेर समुज्झति । यथाऽसौ झुंटणपरित्यागे वहुदुःखितो वभूव तथाऽसौ प्रस्तुतधर्मत्यागे । यथा तस्य पुनः स दुर्लभो
ESTOSHOSHSHSHSHSLSSOS