________________
श्रीउपदेशपदे
॥ २६८ ॥
कोटिसंख्यादीनारपरिहारात् काकिणीग्रहणं काकिणी - पञ्च हतैश्चतुर्भिर्वराटकैः काकिणी चैका" इतिवचनात् कपर्दकविंशतिरूपा, तस्याः काकिण्या उपादानं पापानामुदीर्णलाभान्तरायादिप्रचुराशुभकर्मणां न पुन न्यानां धर्मणाम् । एवमपि प्रस्तुते किमित्याह - धन्यश्च धन्य एव चरणयुक्तो निष्पन्ननिष्कलंकत्रत परिणामः पुमान् वर्त्तते इत्यस्मात् कारणाद् धर्मसारः सदा सर्वकालं भवति, न तु मातृस्थानप्रधानः । इति कथमसौ कोटितुल्यनिर्जरालाभत्यागाद् मातृस्थानप्रधानवृत्तकारितया काकिणी तुल्यपूजाख्यात्यादिस्पृहापरः स्यादिति भावः ॥ ५४५ ॥ अत्रैवाभ्युच्चयमाह;
परिणाह बुद्धिमपि पाएण । जायइ जीवो तप्फलमवेक्खमन्नेउ नियमत्ति ॥ ५४६ ॥ गुणस्थान परिणामे गुणविशेषस्य जीवदयादिरूपस्यात्मनि परिणामे सति, तथेति समुच्चये, बुद्धिमानपि युक्तायुक्त - विवेचनचतुरशेमुषी परिगतोऽपि न केवलं धर्मसारः सदा भवति, प्रायेण बाहुल्येन जायते जीवः, महतामप्यनाभोगसम्भवेन कदाचित्कृत्येष्वबुद्धिमत्त्वमपि कस्यचित् स्यादिति प्रायोग्रहणम् । अत्रैव मतान्तरमाह - तत्फलं बुद्धिमत्त्वफलं स्वर्गापवर्गादिप्राप्ति लक्षणमपेक्ष्य समाश्रित्यान्ये पुनराचार्या नियमोऽवश्यंभावो बुद्धिमत्त्वस्यानाभोगेऽपि गुणस्थानकपरिणती सत्यामिति ब्रुवते; अयमभिप्रायः- सम्पन्ननिर्व्रणव्रत परिणामाः प्राणिनो 'जिनभणितमिदम्' इति श्रद्दधानाः कचिदर्थेऽनाभोग बहुलतया प्रज्ञापकदोषाद्वितथश्रद्धानवन्तोऽपि सम्यक्त्वादिगुणभङ्गभाजो न जायन्ते, यथोक्तम् —
पुष्टालंजने निर्जरादि
॥ २६८ ॥