________________
श्रीउपदेशपदे
व्रतपरिणामगुणदोपाल्पबहुत्वम्
॥२६७॥
RAKAKKAKKrtest
विपर्यस्तरूपं न त्वर्थित्वातिरेकात् । आरूढविपर्ययः सदपि दोषबाहुल्यं नावबुध्यत इति । तथा, सम्यक् परिशुद्धोपायपूर्वकतया प्रवर्त्तते सर्वकार्येषु तपोऽनुष्ठानादिषु तथा, यथा प्राप्नोति लभते निर्जरां कर्मपरिशाटरूपां विपुलामक्षीणानुबन्धत्वेन विशालामिति । असम्पन्नव्रतपरिणामा हि बहवो लोकोत्तरपथावतारिणोऽपि गुरुलाघवालोचनविकला अत एवाव्यावृत्तविपर्यासास्तथा प्रवर्तन्ते यथा स्वपरेषां दिङ्मूढनिर्यामका इवाकल्याण हेतवो भवन्ति ।। ५४१॥ एतदेव भावयति:पुदि दच्चिन्नाणं कम्माणं अक्खएण णो मोक्खो। पडियारपवित्तीवि ह सेया इह वयणसारत्ति ॥५४२॥
पूर्वभवान्तरे दुश्चीर्णानां ततस्ततो निविडाध्यवसायाद् निकाचनावस्थानीतानां कर्मणां ज्ञानावरणादीनामक्षयेणानि६ जेरणेन नो नैव मोक्षः परमपुरुषार्थलाभसरूपो यतः सम्पद्यते, किन्तु क्षयादेव । ततः कर्मक्षयार्थिना उपसर्गाश्चेदुप
पस्थिताः सम्यक् सोढव्याः। यदा कथञ्चित् सोढुं न शक्यते, तदा प्रतीकारप्रवृत्तिरपि प्रतिविधानचेष्टारूपा श्रेयसी, इह दुश्चीर्णकर्मणां क्षये, वचनसारा कल्पादिग्रन्थोक्का ग्लानचिकित्सासूत्रानुसारिणी, यथा-"फासुयएसणिएहिं फासुयओहासिएहिं कीएहिं । पूईए मिस्सएहिं आहाकम्मेण जयणाए ॥१॥" न तु गुरुलाघवालोचनविकला स्वविकल्पमात्रप्रवृत्ता ॥ ५४२ ॥ एतदेवाधिकृत्याह:-. 5 अज्झाणाभावे सम्म अहियासियवतो वाही। तब्भावम्मिवि विहिणा पडियारपवत्तणं णेयं ॥ ५४३ ॥ ६ आर्तध्यानाभावे "तह सूलसीसरोगाइवेयणाए विओगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स ॥"
इत्येवलक्षणस्य ध्यानशतकोतस्यार्तध्यानस्याभावे सति सम्यक् प्राग्भवोपार्जितकर्मनिर्जरणाभिलाषयुक्तत्वेनाध्यासि
6640GHICESCASSIGLOC
॥२६७॥
*