________________
रश्रेषु दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥ १ ॥" एवंरूपात् किमित्याह-प्रतिबोधनं तु | सन्मार्ग्यावतारणमेव नवरमेतेषां राजादीनां कृतम्, न पुनश्चिकित्साङ्गीकार इति । यात्र तेन दृष्टान्तदातिकभावना कल्पिता तां दर्शयति-आत्मा तु आत्मा पुनर्देहतुल्यः शरीरसदृशः, देहः पुनरर्थतुल्योऽर्थसमः प्रतिभासते । इति | प्राग्वत् । यथा हि लोकनीत्या देहार्थयोर्युगपत् पीडायामर्थपरिहारेण देह एव रक्ष्यते, तथा धार्मिकाणां देहपीडोपेक्षणेनात्मैव रक्षणीयतया प्रतिभासत इत्युत्सर्ग एपः । अव्युच्छित्त्यादिप्रयोजनान्तरासहानां युक्तमेव देहानुप्रेक्षणम् । यदवाचि निशीथभाष्ये - "काहं अछित्ति अदुवा अहीहं तवोवहाणेसु य उज्जमिस्सं । गणं च नीईय व सारइस्सं सालंबसैवी समुवेइ मोक्खं ॥ १ ॥" ५३९ ॥ ४ ॥ ततो देवोपयोगे देवाभ्यां निजप्रतिज्ञातेऽर्थे निश्चलतायास्तस्यालोकेऽवधिना कृते तयोर्देवयोस्तोपो हर्षो जातः, -अहो ! सत्यप्रशंस एप इति । तदनु निजरूपं दिव्यभावलक्षणं समुपदर्शितम् । ताभ्यां तदनु रोगहरणं ज्वरातिसारादिसर्वरोगापहारः कृतः । तस्य नामाभिधानं च, इतिशब्दो भिन्नक्रमे । तत आरोग्य इति 'से' तस्य जातम्, परिशुद्धारोग्यगुणानन्यरूपत्वात् । तथा हि-प्राग् रोगेभ्योऽभिन्नरूपत्वेन रोग इति तस्य नाम रूढं तथा सम्प्रति | देवप्रसादोपलब्धावारोग्यगुणाद व्यतिरिक्तरूपादारोग्य इति नामास्य रूढिमगमत् । उपसंहरन्नाह - व्रतपरिणामः प्राणाति| पातादिविरतिपरिणतिरूपः, इत्येवं कष्टदशायामप्यविचलमना द्रष्टव्यः ॥ ५४० ॥ ५ ॥ अत्र च सति यत् स्यात्तद्दर्शयतिः - | सइ एयम्मि विचारति अप्पवहुत्तं जहट्ठियं चेव । सम्मं पयट्टति तहा जह पावति निज्जरं विउलं ॥ ५४१ ॥ सत्येतस्मिन् त्रतपरिणामे विचारयति मीमांसते । किमित्याह - अल्पबहुत्वं गुणदोषयोः सर्वप्रवृत्तिषु यथावस्थितमेवा