________________
I
उज्जेणीए रोगो णामं धिजाइओ महासड्डो । रोगहियासण देविंदपसंसा असद्दहण देवा ।। ५३५ ।। s काऊण वेज्जरुवं भणति तं पण्णवेमो अम्हेत्ति । रयणीए परिभोगो महुमाईणं चउन्हं तु ॥ ५३७ ॥ २ ॥ | तस्साणिच्छण कहणा रन्नो सयणस्स चेव तेसिं तु । लग्गण सत्थकहाहिं ताणं इयरस्स संवेगो ॥ ५३८ ॥३ | देहत्थपीडाणाया पडिवोहण मो तु णवरमेतेसिं । आया तु देहतुल्लो देहो पुण अत्थतुल्लोत्ति ॥ ५३९ ॥ ४ ॥ देववओगे तोसो नियरूवं रोगहरण नामंति । आरोगो से जायं वयपरिणामोत्ति दट्ठवो ॥ ५४० ॥ ५ ॥ उज्जयिन्यां नगर्यो बालकालादेव रोगबहुलतया रोगो नाम रोग इत्याख्यया प्रसिद्धः, धिग्जातीयो महालोभाभिभूततया परप्रार्थनाप्रवणत्वेन धिग् निन्दनीया या जातिस्तस्यां भवो ब्राह्मण इत्यर्थः । कीदृश इत्याह- महाश्राद्धोऽणुत्रतादिश्रावकसमाचारशुद्धपरिपालनतया प्रधानश्रावकः । तस्य च भवान्तरोपार्जितास द्वेद्या दिकर्मपरिपाकतः कश्चिदनिर्द्धारितस्वरूपो रोगो जातः । तेन च सम्पद्यमानचिकित्सासामग्रीकेणापि तस्य रोगस्याधिसहनमाश्रितम्, यथा - " सह कडेवरखेदमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि कर्म हे परवशो न च तत्र गुणोऽस्ति ते ॥१॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ २ ॥” एवं च तस्य तं रोगं | सम्यगधिसमानस्य, अत एव रोगप्रतीकारपराङ्मुखस्य गच्छत्सु दिवसेसु देवेन्द्रप्रशंसा प्रवृत्ता, यथा- अहो ! महासयो रोगनामोज्जयिन्यां ब्राह्मणो यदेवमुपस्थाप्यमानचिकित्सोऽपि तदनपेक्षतया रोगमधिसहमानस्तिष्ठति । ततश्च