________________
श्री उपदे
शपदे
॥ २६५ ॥
ततो निमन्त्रणात् - यथाऽहं तडागखान कहस्तात् कुशान् गृहीतवान् तथा भवतापि ग्राह्या इति पुत्रनिरूपणानन्तरं तेन तत्र गमनं कृतम् ॥ ५३३ ॥ ३ ॥ तस्य च तत्रागमः समागमनं तडागखानकानां कुशहस्तानां हट्टे संजातम् । तैश्चाधिकधनेन ते कुशा दातुमारब्धाः । तेन चादानमधिकमूल्यस्य कृतम् । ततो व्यावृत्तमार्गणा च व्यावृत्तस्य व्यवहारे तस्य पार्श्वत् पुनरप्यधिकमूल्यमार्गणा सत्वरैः सद्भिस्तैर्यदा कृता, तदा तेन रोषेणाक्षमया तेपां कुशानां हट्टाद् बहिर्देशे क्षेपे कृते सति मलस्य किट्टलक्षणस्य गमोऽपगमः । ततस्तस्मात् सुवर्णदर्शनं खरकर्मणां दण्डपाशिकनराणां तैश्च निवेदितम् । दण्डिक पृच्छा - राज्ञा प्रश्नः कृतः शेषेषु कुशेषु विषये यथा क्व शेषाः कुशा विक्रीता भवद्भिरिति ॥ ५३४ ॥ ४ ॥ तैश्च साधनं निवेदनं कृतं यथा—- दृष्टपूर्वा अन्येनैकेन नन्देन दृष्टाः परमग्रहणं चाग्रहणमेव तेन तेषां कृतम्, अन तुगृहीताः प्रभूता इति । ततः पृच्छा तस्य राज्ञा कृता, यथोपस्थिता अप्यमी कुशाः कस्माद् न गृहीताः ? भणितं च तेन देव ! इच्छापरिमाणव्रतभङ्गभयात् । ततः श्रावकपूजा श्रावकस्य शुद्धव्यवहारतया पूजा महागौरवरूपा कृता, दण्ड इतरस्य मिथ्यादृशो नन्दस्य पुनः रौद्रः सर्वस्वप्राणहारणलक्षणः कृतः । तथा ह्यसौ मित्रगृहाद् निवर्त्तमान एवं वृत्तान्तमाकर्ण्य 'अहो ? निजजंघावलादेव हट्टादुत्थायाहमन्यत्र गतः, ततो नूनमेतयोरेवापराधः तच्छेदनीये एते' इति परिभाव्य तीक्ष्णधारेण कुठारेण तयोर्घातमाचचार । ज्ञातवृत्तान्तेन च राज्ञा तदवस्थस्यापि तस्य दण्डो विहित इति ॥ ५३५ ॥ ५ ॥ अथ षष्ठमुदाहरणं गाथापञ्च केनाहः
१ खग. हट्टव्यवहारेण, घ. हट्टस्य व्यवहारे तस्य ।
| नन्दद्विको|दाहरणम्
॥ २६५ ॥