________________
मियावं युक्तायुक्तवस्तुविचारतिरस्कारकारी जीवपरिणतिविशेषस्तेनातः पीडितो मिथ्यात्वार्त्तः, अथवा दण्डयोगाह
यह मिथ्यात्वयोगादु मिथ्यात्वः सन् अतितीव्रलोभो भृशं सर्वक्रियासु गुणदोपयोः परिणाममगणयन् प्रवृत्तिमाललम्बे । अन्यदा 'रायतलाग' त्ति राज्ञा तडागमोड्डः खानयितुमारब्धम् । तत्र च निधानगतसौवर्णकुशानामतिचिरकालनिधाननिक्षिप्तसुवर्णमयकुशानामोड्डानां दर्शनमजायत ॥५३१ ॥ १॥ 'तह किट्ट' त्ति तथाविधताम्रमयाधारमलसंगलनात् सम्पन्नकिट्टास्ते संजाताः। ततः सुवर्णछायाभङ्गालोहमयका इति संभाव्यायनोऽनादरस्तेषु तैर्विहितः । कर्मकरैश्च तडा. गखानकफिकरैर्ग्रहणक्रिया तेषु दानं तेषां कृतम् । विपणिपथावतारणेन च विक्रयणमारब्धम् । तत्र च ‘सड्डपरिण्णाणगह'त्ति तेन नन्दश्राद्धेनाकारविशेषात् तौल्यविशेपाच किट्टावृता अपिते सुवर्णमया इति ज्ञानविषयतां नीताः। अग्रहोऽनुपादानं |च कृतं चैपाम् । कुत इत्याह-इच्छापरिमाणभंगभयात् । यद्यपि राजलोकेन तथा गृह्यमाणेषु ज्ञातेषु तेषु सर्वस्वापहारादिको निश्चितो दण्डः सम्पद्यत इति मनसि तस्य वितर्कणमस्ति, तथापि तदवधीरणेन प्रतिपन्नस्येच्छापरिमाणव्रतस्य तरसुवर्णकुशसंग्रहेणाधिक्यं संजायते, इति मा भूत् प्राणभङ्गादपि दारुणफलो व्रतभङ्ग इत्यभिप्रायाद् न गृहीता इति ॥ ५३२ ॥ २॥ इतरग्रहः इतरेण मिथ्यादृशा नन्देन दारुणलोभभुजगविषविह्वलेन ग्रहस्तेषां विज्ञाततथावस्थिततत्स्वरुपेणापि कृतः। भणितं च प्रतिदिनमिहानयत कुशानेतान् कार्य महदस्माकमेतैः । आगतान लोमयकुशमौल्याद् अतिरिक्तेन द्रव्येण करोति स्म । एवं च वहुग्रहणं प्रतिदिवसं गृह्यमाणतया बहूनां प्रभूतानां है ग्रहणमजनि । अन्यदा च कस्यचित् स्वजनादेरलंघनीयवचनस्य गृहे कश्चिदुत्सवो बभूव । तेन चासावागत्य निमंत्रितः।
ARCHASEACCORNBCCIALA
CAUSEOSSEISUOSTOS SECOS