________________
हेनुनाह-मज्ञानश्रद्धानात् सज्ज्ञानादविपर्यस्ताद् व्रतगतहेतुस्वरूपफलपरिज्ञानात् श्रद्धानाच्चेदमित्वमेवेति प्रतीतिरूपात् । नस्य व्रतपरिणामस्य यद्यस्माद् भावतस्तत्त्ववृत्त्या भावः समुत्पादः। इदमुक्तं भवति-अव्रतपरिणामस्तत्त्वविपयादज्ञानादश्रद्धानाच जीवानामस्वभावभूतः प्रवर्त्तते, इति नासौ धीरोदारगुरुक इति चालयितुमपि शक्यते । व्रतपरिणामस्त्वेतद्विपरीत इति न चालयितुं शक्यः ॥ ५११॥ एतदेव भावयति; जाणइ उप्पण्णरुई जइ ता दोसा नियत्तई सम्मं । इहरा अपवित्तीयवि अणियत्तो चेव भावेण ॥५१२॥
जानाति हेतुतः स्वरूपतः फलतश्च दोपं जीवहिंसादिरूपं, तत उत्पन्नरुचिः समुन्मीलितश्रद्धानः पुमान् मिथ्यात्व| मोहोदयविगमाद् यदि चेत्, ततो दोपाद् निवर्त्तते सम्यग् मनःशुद्धिपूर्वकम् । इतरथा ज्ञानश्रद्धानाभावे कुतोऽपि लाभादिकारणादप्रवृत्तावपि दोपेऽनिवृत्तश्चैवानुपरत एव भावेन परमार्थेन । यथा दाहकशक्तिव्याघाताभावे कुतोऽपि बैगुण्याददहन्नपि दहनस्तत्त्वतो दाहक एव, एवं ज्ञानश्रद्धानाभावे दोपनिवृत्तावपि जीवो दोपेष्वनिवृत्त एव दृश्यः, दोपगतः कत्याश्चिदनुपघातादिति ॥ ५१२ ॥ पुनरप्येतदेव समर्थयन्नाह; जाणंतो वयभंगे दोसं तह चेव सदहंतो य । एवं गुणं अभंगे कह धीरो अण्णहा कुणइ ? ॥५१३॥
जाननबुभ्यमानो जतभने प्रतिपन्नव्रतविनाशे दोपं नरकपातादिलक्षणं, चैवेति समुच्चये, श्रधानश्च श्रद्दधान एव; एवं जानानः अधानच गुणं स्वर्गादिलाभरूपम् अभङ्गे व्रतस्य कथं धीरः सात्त्विकोऽन्यथा कुरुते ? प्रतिपद्य व्रतं तस्यान कुरुत इति भावः॥ ५१३ ॥ कुतः। यतः
सादर