________________
नियमेन, एतस्या आज्ञायाः करणे पुनः प्रतिवन्धकभावाद् दृढचारित्रमोहोदयात् तीव्रवीर्यान्तरायभावाच्च परिनिश्चिता-1151 मा स्वरूपस्यापि जन्तोजना कदाचिद् आज्ञाकरणं न स्यादपीत्यर्थः । तथा हि कृष्णश्रेणिकादीनां करतलकलितमुक्ता
फलन्यायेन निश्चिताज्ञास्वरूपाणामत एव भवनिष्क्रमणाभिमुखमानसजन जनिताद्भुतसाहाय्यानाम् , तथा, “जैन | ॥ मुनिप्रतमशेपभवात्तकर्मसन्तानतानवकरं स्वयमभ्युपेतः । कुर्यात् तदुत्तरतरं च तपः कदाहं भोगेषु निःस्पृहतया परिमुतिमहः! ॥१॥” इत्येवं प्रवर्द्धमानाधिकमनोरथानामपि पूर्वभवनिकाचितक्लिप्टकर्मविपाकाद् न चारित्रलाभोऽभूत् ।। अत एव पठ्यते-"कम्माई पुण घणचिक्कणाई कठिणाई वज्जसाराई । नाणड्डयंपि पुरिसं पंथाओ उप्पहं णिति" ॥१॥ इति ॥ ४७८॥
उपमंहरन्नाह;कयमेत्थ पसंगेणं समासओजेण एस आरंभो। दिसिमत्तदंसणफलो पगयं चिय संपयं वोच्छं॥ ४७९॥ | कृतं पर्याप्तमत्राज्ञामाहात्म्यख्यापने प्रसङ्गेन विस्तरेण । समासतः संक्षेपेण येन कारणेनैप उपदेशपदग्रन्थरूप आरंभः || प्रयत्नः । कीदृश इत्याह-दिङ्मात्रदर्शनफलः कस्यचिद् उपदेशस्य परिपूर्णतया भणितुमनुपक्रान्तत्वात् । ततः प्रकृतमे याभिग्रहमाहात्म्यख्यापनरूपं वस्तु साम्प्रतं वक्ष्ये ॥ ४७९॥
एतदेव दर्शयति;अण्णंपि इहाहरणं वणियसुया सज्झिला उ बोहीए। पवज सीयल मणोरहो य सुद्धाए फलभेओ॥४८०॥