________________
आज्ञायामन्धानन्धविभागप्र०
श्रीउपदे- सम्यक् शुद्धया योगिबुद्ध्या सज्ञानगुणपात्रजनयोग्यप्रज्ञया, इतरया त्वयोगिबुद्ध्या न गम्यते न बुद्ध्यते । दृष्टान्तमाशपदे ह-रूपवद् नीलपीतादिलक्षणं रूपमिव सदान्धसंज्ञया जात्यन्धविहितहस्तस्पर्शादिलक्षणबुद्ध्या ॥४७६॥
___ अथ भावतोऽन्धानन्धविभागं दर्शयति;॥२४६॥
जच्चंधो इहणेओ अभिषणगंठी तहंधलयतुल्लो। मिच्छट्ठिी सज्जक्खओ य सइ सम्मदिट्ठीओ॥ ४७७॥
जात्यन्धो जन्मकालप्रभृत्येव नयनव्यापारविकल इह सद्भूतभावरूपोपलब्धौ ज्ञेयोऽभिन्नग्रन्थिः कदाचनाप्यव्यावृदत्तमिथ्यात्वतिमिरपटलो जीवः॥१॥ तथान्धकतुल्यः पश्चान्नष्टदृष्टिजनसमानो मिथ्यादृष्टिः, अवश्यवेद्यमिथ्यात्वमो
होदयाद् ग्रन्थिभेदेऽपि सम्यक्त्वभ्रंशानन्तरं मिथ्यात्वगतो जीवः ॥२॥ सज्जाक्षश्च प्रगुणलोचन एव सदा सर्वकालं सम्यग्दृष्टिस्त्वविचलितसम्यग्बोधः पुनर्जन्तुः॥३॥ यथैको जात्यन्धो, द्वितीयोऽन्धः, तृतीयः सज्जाक्ष इति त्रयो लोके रूपोपलंभयोग्या नरा वर्तन्ते । तथा धर्मतत्त्वरूपोपलंभविषयेऽप्यभिन्नग्रन्थिन्निग्रन्थिश्च मिथ्यादृष्टिः सम्यग्दृष्टिश्च तृतीयो योग्यरूपतया वाच्य इति ॥ ४७७॥
यश्चैतेषु सज्जाक्षतुल्यः सम्यग्दृष्टिः, स यत् करोति तदाहा+ एसो मुणेइ आणं विसयं च जहट्ठियं णिओगेणं। एईए करणम्मि उ पडिबंधगभावओ भयणा ॥४७॥
एष सम्यग्दृष्टिमुणति जानीते आज्ञा विपयं चोत्सर्गापवादरूपं यथावस्थितं द्रव्यक्षेत्रकालभावादिशुद्धं नियोगेन।
॥२४६॥