________________
4
| दृष्टान्तयोजनामाह- भावः प्रायश्चित्तप्रतिपत्त्यादिपरिणामरूपः, तुः पादपूरणार्थः, इह दोपतृणदहनेऽग्निरनलः, आज्ञा पवनो यथा भणितो भावाग्निसाहाय्यकारी ॥ ४७४ ॥
नन्याज्ञापयनयोर्बृहदन्तरत्वात् कथं दृष्टान्तदान्तिकभावइत्याशंक्याह;
सा पुण महाणुभावा तहवि य पवणाइरुव मो भणिया । विवरीएसा समओदिया य तह बंधवुड्डिकरा ॥
मा पुनराज्ञा महानुभावा पवनमपेक्ष्य प्रौढसामर्थ्याऽशेपदाहका, दाह्यकर्मकचवरभस्मभावसम्पादनात्, तथापि च लोकप्रतीत शेषोपमानाभावादिह तावत् पवनरूपा । अन्यत्र तु " आणा हि मोहविसपरममंतो, जलं रागाइजलणस्स, कम्मवाहिविगच्छासत्थं, कप्पपायवो सिवफलस्स" इत्यादिसूत्रेषु परममंत्रादिरूपा भणिता । 'मो' पूर्ववत् । तथा विपरीता द्रव्यक्षेत्राद्यनौचित्य सेवनेन विपर्यस्ता एपा आज्ञा, किं विशिष्टापि सतीत्याह - समयोदितापि सामान्यतः सिद्धा - न्तनिरूपितापि, तथेति समुच्चये, बन्धवृद्धिकरी कम्मोंपचयकारिणी ॥ ४७५ ॥
उपसंहर्तुमाह;—–
| आलोचियवमेयं सम्मं सुद्धाए जोगिबुद्धीए । इयरीए उ ण गम्मइ रूवं व सधसण्णाए ॥ ४७६ ॥ आलोचनीयं मीमांसनीयमेतद् यथेहेयमाज्ञा सम्यक् प्रयुक्ता भावाग्नेः पवनतुल्या, विपरीता तु वन्धवृद्धिकरी,