________________
श्रीउपदेशपदे
॥ २४५ ॥
अत्रोपपत्तिमाहः
गरुओ य इह भावो ओ सहगारिगस्यभावेण । तित्थगराणा नियमा एत्थं सहगारिणी जेण ॥ ४७२ ॥ गुरुश्च गरीयानेव इह शुभयोगे प्रवृत्तेः तत्तत् क्रियोपयोगरूपो ज्ञेयः । केन हेतुनेत्याह- सहकारिगुरुकभावेन । एतदेव दर्शयति - तीर्थराज्ञा भगवदादेशरूपा नियमादवश्यं भावादत्र शुभयोगे सहकारिणी सहायभूता येन कारणेन - वर्त्तत इति ॥ ४७२ ॥
दोसो उ कम्मजो चिता तुच्छो सो इमंतु अहिगिच्च । लेसो वि अग्गिणो डहइ हंदि पयरंपि हु तणाणं ॥
दोषस्तु ऋषिघातादिः पुनः कर्मज एव जीवस्वरूपविलक्षणकषायादिकर्मोद्भव एव ततस्तुच्छः फल्गुरूपः स दोषः, पुनस्तुशब्दस्य पुनः शब्दार्थस्येह योजनात्, इमां सर्वज्ञाज्ञामधिकृत्यापेक्ष्य । अत्र प्रतिवस्तूपमालक्षणं दृष्टान्तमाह-लेशोप्यग्नेः, किं पुनर्वहुर सावित्यपिशब्दार्थः, दहति भस्मभावमानयति व्रातमपि हु तृणानां किं पुनः स्तोकानि तानीत्यपिशब्दार्थः ॥ ४७३ ॥
कथमित्याह
अणुकूलपवणजोगा ण तु तविरहम्मि सिद्धमेयं तु । भावो उ इहं अग्गी आणा पवणो जहा भणिओ ४७४ अनुकूल पवनयोगाद् दाह्यतृणाभिमुख प्रवृत्तपवनसम्बन्धात् न पुनस्तद् विरहे, सिद्धं प्रतीतमेतत् त्विदं पुनः । अथ
शुभयोगे
आज्ञाया
सहकारि
त्वप्रद०
॥ २४५ ॥