________________
कामदेवायतने 'जिणपडिमसिटि पासणया'इति तं जिनं प्रतिमास्थितं जीर्णश्रेष्ठी नित्यमागत्य पश्यति स्म । 'अइभत्तिति | भतिश्चातीय तद्विषया तस्य समजनि । अन्यदा चतुर्मासकक्षपणस्य विकृष्टतपसः पारणकदिने प्रवृत्ते मनोरथो वक्ष्य
माणरूपो जज्ञे । गृहद्वारावलोकनादिविनयपरो यावदसावास्ते तावत् सजिनोऽन्यत्राभिनवश्रेष्ठिगृहे प्रविष्टः॥ ४५४ ॥ 1. दापिता च तेन स्वमाहात्म्यौचित्येन तस्मै भिक्षा । कृता च तद्देशविचारिभिर्जुम्भकदेवैरहत्पारणकसन्तुष्ट्रय
कदानधारा वसुधारावृष्टिलक्षणा । सा चैवं विज्ञेया-"अद्धत्तेरसकोडी उक्कोसा होइ तत्थ वसुधारा । अद्धत्तेरसल-10 क्सा जहन्निया होइ बसुधारा" ॥१॥ ततो लोके कृतपुण्यकोऽसाविति तस्यैवं च प्रशंसा विजृम्भिताऽभिनवश्रेष्ठिनः । केलि आगम'त्ति कालेन च पार्थापत्यीयस्य केवलिनः कस्यचिद् आगमे तत्र वहलकुतूहलाकुलचेतसा लोकेन पृच्छाsकारि भगवन् ! कोऽत्र परिपुर्णः पुण्यवान् ? भगवता चोचे जीर्णश्रेष्ठीति ॥ ४५५ ॥ ननु जीर्णश्चेष्ठिनः पारणकविपयो मनोरथ एवासीन्न कश्चिदभिग्रह इति कथमसौ दृष्टान्ततयोपन्यस्त इत्याशंक्याह;
एत्थ हु मणोरहो च्चिय अभिग्गहो होति नवर विन्नेओ।
जदि पविसति तो भिक्खं देमि अहं अस्स चिंतणओ ॥ ४५६ ॥ अत्र पारणकविषये 'हुः' यस्माद् मनोरथ एवाभिग्रहः पात्रदानविपयो नवरं केवलं न पुनरन्यत् किञ्चिद् भवति हा विज्ञेयः । कथमित्याह-यदि प्रविशति कथञ्चिद् मम गृहे भगवानेपः, ततो भिक्षां ददाम्यहमस्मै चिन्तनादैवरूपात् । अय