________________
श्रीउपदेशपदे
॥२४२॥
अभिग्रहमत्राभिप्रायः-सर्वोऽप्यभिग्रह इच्छा-प्रवृत्ति-स्थैर्य-सिद्धिभेदाच्चतुर्धा परिगीतः। तत्रास्येच्छारूप एव परिशुद्धोऽभिग्रहो
माहात्म्याभवन् स एव पारणकभेरीशब्दश्रवणकालं यावत् प्रवृद्धः सन् पारंपर्येण मोक्षफलतया संवृत्तः । इतरस्य च माहात्म्यौचित्येन दत्तदानस्याप्यभ्युत्थानादेर्भक्तेश्च गुणवद्बहुमानरूपाया अभावाद् यादृच्छिकवसुधारादिफल एव संवृत्तः परिणामो, न पुनर्निर्वाणफल इति ॥ ४५६॥
अथान्यदप्यभिग्रहमाहात्म्यमभिधातुमाह:पञ्चग्गकयंपि तहा पावं खयमेइऽभिग्गहा सम्मं । अणुबंधो य सुहो खल्लु जायइ जउणो इहं नायं ॥४५७॥
प्रत्यग्रमाकुट्टिकादिदोषात् सद्योरूपं कृतं निर्वर्तितं प्रत्यग्रकृत, किं पुनश्चिरकालकृतत्वेन जीर्णभूतमित्यपिशब्दार्थः, तथेति वक्तव्यान्तरसमुच्चये, पापं ऋषिघातादिजन्यमशुभं कर्म क्षयमपगममेति प्रतिपद्यते । कुत इत्याह-अभिग्रहात्र 'सम्म'त्ति सम्यगुरूपतया परिपालितात् । अनुवन्धश्चानुगमः पुनः शुभः पुण्यकर्मानुवृत्तिरूपा, खलुक्यालंकारे, जा-3 यते । यमुनो राजा इहार्थे ज्ञातं दृष्टान्तः॥ ४५७ ॥ तदेव गाथाष्टकेन संगृह्णन्नाह;महुराए जउणराया जउणावंके य डंडमणगारो। वहणं च कालकरणं सकागमणं च पवजा॥ ४५८॥१॥
॥२४२॥ जउणावंके जउणाए कोप्परे तत्थ परमगुणजुत्तो। आयावेण्ण महप्पा दंडोनामेण साहुत्ति॥४५९॥२॥