________________
णाऊण अत्तदोसं वीरियजोगं च खेत्त कालो य । तप्पच्चणीयभूए गिण्हेजाभिग्गहविसेसे ॥ ४५० ॥ ह ज्ञात्वा सम्यगधिगम्यात्मदोपं तीवकोपवेदोदयादिकं, वीर्ययोगं च तन्निग्रहसमर्थसामर्थ्यलक्षणं, क्षेत्रकालौ च प्रतिपि
मताभिग्रहपरिपालनानुकलं क्षेत्रं कालं चेत्यर्थः। किमित्याह-तत्प्रत्यनीकभूतान् स्वयमेव संवेदितस्वदोपप्रतिपक्षभावगतान् गृहीयात् समादद्याद् अर्हत्सिद्धादिप्रत्यक्षमेवाभिग्रहविशेषान् क्षमाशरीराप्रतिकर्मत्वादीन, मुमुक्षूणां क्षणमपि निरभिग्रहाणामवस्थानस्याक्षमत्वादिति ॥ ४५० ॥ । न पाभिग्रहा ग्रहणमात्रत एव फलदायिनो भवन्ति, किन्तु परिपालनादिति तद्गतोपदेशमाह:पालिज य परिसुद्धे आणाए चेव सति पयत्तेण । वज्झासंपत्तीय वि एत्थ तहा निज्जरा विउला ॥ ४५१॥ । पालयेच रक्षेत् पुनः परिशुद्धान् सर्वातिचारपरिहारात्, आज्ञया चैव प्रवचनोक्तैस्तैस्तैरुपायैरित्यर्थः, सदा सर्वकालं | प्रयलेनादरेण महता । कुतः । यतो वाह्यासम्प्राप्तावपि वाह्यस्याभिग्रहविषयस्य क्षमणीयादेरर्थस्याप्राप्तावपि, अत्राभिग्रहे || गृहीते सति तथा तत्पकारस्य निग्रहीतुमिष्टस्य क्रोधादेः कर्मणो निर्जरा क्षपणा विपुला प्रचुरा सम्पद्यत इति ॥ ४५१॥
एतदपि कुत इत्याहातस्संपायण भावो अबोछिन्नो जओ हवति एवं । तत्तो यनिज्जरा इह किरियायविहंदि विनेया॥४५२॥ तत्सम्पादनभावोऽभिग्रहविषयस्यार्थस्य निष्पादनपरिणामोऽव्यवच्छिन्नोऽत्रुटितो, यतो भवति एवमभिग्रहप्रतिपत्तौ ।