________________
श्रीउपदेशपदे
मिथ्यादृष्टे - रज्ञानस्व
॥ २३९॥
ROSAARISERSLASHICHISHISHICHIC
एनामेव गाथाचतुष्टयेन व्याचष्टेहै एगंतणिच्चवाए अणिच्चवाए सदसदविसेसो। पिंडो घडोत्ति पुरिसादन्नो देवोत्ति णातातो ॥ ४४५॥ भवहेउ णाणमेयस्स पायसोऽसप्पवित्तिभावेण । तह तदणुबंधओ च्चिय तत्तेतरणिंदणादीतो॥४४६॥
एकान्तनित्यवादे एकान्तेन स्याद्वादविपरीतरूपेण नित्यस्याप्रच्युतानुत्पन्न स्थिरैकस्वभावस्यात्मादेरभ्युपगमे क्रियमाणे परैः सांख्यादिभिः, सदसदविशेषः प्राप्नोति, विवक्षितावस्थायाः सत्त्वकाले च द्रव्यस्याविशेषोऽनानात्वमापद्यते । ततो ६ य एव पिण्डो मृदः सम्बन्धी स एव घटः, इत्यायातं मृद्रव्यस्योभयावस्थानुयायित्वम् , तिलतुपत्रिभागमात्रमपि स्वरूपभेदाभावात् । न च वक्तव्यमेकाकारेऽपि द्रव्ये पिण्डो घटश्चेत्यवस्थाभेदाश्रयोऽसौ व्यवहारो लोके न प्रवर्त्यत इति, अवस्थातुरभेदे तन्निबन्धनानामप्यभेदप्राप्तेः, कारणभेदपूर्वकत्वात् कार्यभेदस्य । यथोक्तम्-“अयमेव भेदो भेदहेतुवा यद् विरुद्धधर्माध्यासः कारणभेदश्च" इति । अनित्यवादे चैकान्तक्षणक्षयित्वलक्षणे पुरुषाद् विहितदेवभवप्राप्तिप्रायोग्यपुण्यकर्मणः सकाशात् मरणानन्तरं देवभवप्राप्तावन्य एकान्तेनैव विलक्षणो देव इत्यापद्यते । अयमभिप्रायः यथा समुपार्जितसुकृताद् मनुष्याद् नारकतयोत्पन्नो जीवः सर्वथाऽन्य एव, तथा तद्मरणानन्तरं देवतयोत्पत्तावपि, निरन्वयोत्पादस्योभयत्रापि समानत्वात् न चैतद् युज्यते, अकृताभ्यागमकृतनाशदोषप्रसङ्गात् । एवं च नित्यवादे य एव पिण्डः स एव घटो, य एव च घटः स एव पिण्ड इति न्यायात् सदसतोरवस्थयोरविशेषः । अनित्यवादेऽपि पुरुषा
॥२३९॥