________________
3
दन्यो देवो देवाच्च पुरुष इति । ततो यथा पुरुषस्य विद्यमानताकाले कश्चिद्देवतयोत्पन्न एकान्तेनैवान्यस्तथा तन्मरणा
नन्तरमुत्पन्नोऽपि देवोऽन्य एव । ततः पुरुपसत्त्वकालेऽसत्त्वकाले च देवतयोत्पन्नो जन्तुरविशिष्ट एवेति यो न्यायस्तहास्मात् सदसतोरविशेष इति ॥ ४४५॥ | भवेत्यादि । भव हेतुः संसारनिवन्धनं ज्ञानं शास्त्राभ्यासादिजन्यो वोध एतस्य मिथ्यादृष्टेः । कथमित्याह-प्रायशो बाहुल्येनामत्प्रवृत्तिभावेन विपर्यस्तचेष्टाकारणत्वात् तस्य । यदिह प्रायशोग्रहणं तद्यथाप्रवृत्तकरणचरमभागभाजां संनिहितग्रन्थिभेदानामत्यन्तजीर्णमिथ्यात्वज्वराणां केपाश्चिद् दुःखितदयागुणवद्वेषसमुचिताचाररूपप्रवृत्तिसाराणां सुन्दरप्रवृत्तिभावेन व्यभिचारपरिहारार्थम् । तथेति हेत्वन्तरसमुच्चये । तदनुवन्धत एवासत्प्रवृत्त्यरनुबन्धादेव । एतदपि कुत इत्याह-तत्त्येतरनिन्दनादितः । स हि मिथ्यात्वोपघातात् समुपात्तविपरीतरुचिस्तत्त्वं सद्भूतदेवतादिकमहंदादिलक्षणं निन्दति । इतरञ्चातत्त्वं तत्तत्कुयुक्तिसमुपन्यासेन पुरस्करोति । ततस्तत्त्वेतरनिन्दनादिदोपाद् भवान्तरेऽप्यसत्प्रवृत्तिरनुवन्धयुक्तव स्यादिति ॥ ४४६ ॥ उम्मत्तस्सव णेतो तस्सुवलंभो जहित्थरूवोत्ति । मिच्छोदयतो तो चिय भणियमिणं भावगहरूवं॥४४७ ___ उन्मत्तस्येव मद्यपानपराधीनमनसो मनुजस्येव विज्ञेयस्तस्य मिथ्यादृप्टेरुपलम्भो वस्तुवोधरूपो यदृच्छारूपः स्वविकल्पमात्रसंघटित इति । कुत इत्याह-मिथ्यात्वोदयाद् मिथ्यात्वमोहनीयकर्मविपाकात् । तथा हि-पीतमद्यो मदावेशात् किरमपि राजीयति, राजानमपि किंकरीयति, तथोदीर्णमिथ्यात्वो जीवः सदभूतमपि वस्तु अतत्त्वरूपतया व्यवह
ऊर