________________
त्यानां मत्चानां ग्रेयेयकादिषु सुखसिद्धिमात्रमाधाय पश्चात् पर्यायेण नरकादिदुर्गतिप्रवेशफलः सम्पद्यते ॥ ४३८ ॥ 4 एतत् स्वयमपि भावयति;
कुणइजह सण्णिवाए सदोसहं जोगसोक्खमेत्तं तु । तह एवं विण्णेयं अणोरपारम्मि संसारे॥ ४३९॥ | करोति यथा सन्निपाते वातादिदोपत्रययुगपत्प्रकोपरूपे सदौपचं क्रियातितक्वाथादिरूपं योगसौख्यमात्रमेव, न पुन-5 है। स्तदुच्छेदमपि । तयेतद् त्रैवेयकादिसुखं समयवचनौषधप्रयोगाद् उत्पन्नं विज्ञेयमनर्वापारे संसारे ॥ ४३९ ॥
णय तत्तओ तयंपि ह सोक्खं मिच्छत्तमो हियमइस्स।जह रोदवाहिगहियस्सओसहाओवि तब्भावे४४० 4 न नैव, पकारो वक्तव्यान्तरसूचकः, तत्त्वतो निश्चयवृत्त्या तदपि ग्रैवेयकादिगतं, हुः स्फुटं, सौख्यं वर्तते । कस्येहा त्याह-मिथ्यात्वमोहितमतेः दृढविपर्यासपिशाचाभिभूतचेतसो जीवस्य । दृष्टान्तमाह-यथा रौद्रव्याधिगृहीतस्य दुःसाध-|
व्याधिवाधाविधुरशरीरस्य कस्यचिद् औपधादपि तद्भाचे सौख्यभावे न तत्त्वतः सुखम् । तथा हि स्वभावतस्तावत् | तस्य न मौल्यमस्ति, यदि परमौषधात् । परं तत्राप्यत्यन्तदारुणरोगेणानवरतं तुद्यमानमर्मणो वाह्य एव सुखलाभः।। यथा हि शरत्काले कठोरतरतरणिकिरणनिकरण तापितेष्वपि महादेपु बहिरेवोष्णानि जलानि, मध्ये पुनरत्यन्तशीतलभावभाजि भवन्ति, एवं सक्रियायोगाद् वाह्यसौख्ययोगेऽप्यत्यन्तमिथ्यात्योपप्लुतत्वादुःखमेव ॥ ४४०॥ पुनरपि दृष्टान्तोपन्यासेनामुमेवार्थं भावयति;
RASA SASA
SHARES