________________
प्रतिपद्यते प्रायशो बाहुल्येन जीयः । प्रायोग्रहणमवश्यवेद्यमिथ्यात्वादिक्लिष्टकर्मणां केपाश्चिद् विपर्ययसम्भवेन व्यभि-18 चारपरिहारार्थमिति । एतदेव भावयति-समुपस्थितकल्याणः समासन्नीभूताद्भुतप्रभूतकुशलो न नैव हुर्यस्मात् तद्विपरीतकः समुपस्थितकल्याणविरुद्धाचारपरायणो भवति । यथा हि समुपस्थितकल्याणो न तद्विपरीतको भवति, तथा ग्रन्थिभदे उपयुक्तजिनवचनापधः सन् न विपर्यस्तमतिर्जन्तुर्जायते ॥ ४३५ ॥
एतदेव भावयति;16/नो परलोओ नजिणा ण धम्म मो गंडपील सीलंतु। नत्थट्टमियाय तहा एमादि न मन्नई एसो॥४३६॥ 1 नो नैव परलोको वर्तमानभवापेक्षया भवान्तररूपः समस्ति । तस्माद् आगच्छतो गच्छतश्च तत्र कस्यचित् कदाचित् |
केनचिदनवलोकनात्, किन्तु भूतपञ्चकसमुदायरूपकडेवरमेवेदमुद्भूत चैतन्यं तासु तासु क्रियासु प्रवर्त्तमानं जीवतीति | व्यपदेशं प्रतिपद्यते, तदुपरामं च मृतमिति । तथा, न जिना भगवन्तोऽर्हन्तः सर्वथा निवृत्तरागद्वेषमोहमालिन्या मानयविशेपाः सन्ति, तादृशस्य कस्यचिदधुनाऽनुपलम्भात् , दृष्टानुसारेण चादृष्टकल्पनायाः साधीयस्त्वात् । न धर्मों दुर्ग-2 तिपत जन्तुजातधारकः, एतेपामेव च सुगतौ धावको जीवपरिणाम विशेषः, प्रत्यक्षेण साक्षादनिरीक्षणात् । 'मो' इति | पूर्ववत् । गण्डत्य तथाविधनगत्य या पीडा तदुपशमं शीलं तु वस्तिनिरोधरूपं पुनः । यथा हि गण्डपीडायां सह्यमानायां । न कश्चिद् गुणः, किन्तु तन्निपीडनमेव, एवं वस्तिनिरोधपक्षेऽपि भावना कार्या । नास्ति न विद्यतेऽष्टमिका, च तथा, रत्नप्रभादिभ्यो नरकपृथिवीभ्यः सप्तभ्यः पुरतोऽधस्ताद् अष्टमी पृथिवी उपार्जितप्रचुरतमसामिति । अयमभिप्रायः