________________
निच्छयओ पुण एसो विन्नेओ गंठिभेयकालो उ । एयम्मी विहिसतिवालणा हि आरोग्गमेयाओ ४३३ घनं महामेघावलुप्तसकलनक्षत्रादिप्रभाप्रसर भाद्रपदामावास्याश्यामामध्यभागसमुद्भूतान्धकारवन्निविडं मिथ्यात्वं तत्त्वविपर्यासलक्षणं यत्र स तथा; कालश्चरमपुद्गलपरावर्त्तव्यतिरिक्त शेपपुद्गलपरावर्त्तलक्षणः । अत्र च वचनौपधप्रयोगेऽकारत्वकाल एव भवति ज्ञातव्यः । चरमपुद्गलपरावर्त्तलक्षणस्तु तथा भव्यपरिपाकतो वीजाधानोद्भेदपोपणादिषु प्रवर्त्तमानेषु स्यादपिकाल इति । अत एवाह - कालस्त्ववसरः पुनरपुनर्वन्धकप्रभृतिस्तत्रापुनर्वन्धकः “पावं न तिद्यभावा कुणइ” इत्यादिलक्षणः, आदिशब्दाद् मार्गाभिमुखमार्गपतितौ गृह्येते । तत्र मार्गो ललितविस्तरायामनेनैव शास्त्रकृतेत्थंलक्षणो निरूपितो 'मग्गदयाणं' इत्याद्यालापकव्याख्यायाम्, यथा इह मार्गश्चेतसोऽवक्रगमनं भुजंगगमननलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषो हेतुस्वरूपफलशुद्धा सुखेत्यर्थः । तत्र पतितः प्रविष्टो भव्य विशेषो मार्गपतित इत्युच्यते, तदादिभावापन्नश्च मार्गाभिमुख इति । एतौ च चरमयथाप्रवृत्तकरणभागजावेव विज्ञेयौ अपुनर्वन्धककालः प्रभृतिर्यस्य स तथा धीरैस्तीर्थकरादिभिर्निर्दिष्टो व्यवहारत इति ॥ ४३२ ॥ १ ॥
निश्चयतो निश्चयनयमतेन पुनरेप वचनौपधप्रयोगकालो विज्ञेयः । क इत्याह-ग्रन्थिभेदकालस्तु ग्रन्थिभेदकाल एव, यस्मिन् कालेऽपूर्वकरणानिवृत्तिकरणाभ्यां ग्रन्थिर्भिन्नो भवति तस्मिन्नेवेत्यर्थः । कुतो यत एतस्मिन् ग्रन्थिभेदे सति विधिनावस्थोचितकृत्य करणलक्षणेन सदा सर्वकालं या पालना वचनौषधस्य तया कृत्वा आरोग्यं संसारव्याधिनिरोधलक्षणमेतस्माद् वचनौषधप्रयोगाद् भवति । अपुनर्वन्धकप्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथा सूक्ष्मवोधविधायकः,