SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ शपदे श्रीउपदे ॐ योग्यं चैत्यगृहनिष्पत्तौ समुचितमेकं, द्वितीयं तु अतीतभावं चैत्यगृहनिष्पत्तिमपेक्ष्य समुत्तीर्णयोग्यतापर्यायं लग्नो पाटितमित्यर्थः। मूलोत्तरभावतो वा काष्ठमुपलक्षणत्वाद् उपलेष्टकादि वा ग्राह्यं जानीहि द्विविधभेदं विनाशनीयम् । इह मूलभावापन्नं स्तम्भकुम्भिकापट्टादियोग्यं काष्ठदलम् , उत्तरभावापन्नं तु पीठप्रभृत्युपर्याच्छादकतया प्रवृत्तम् । इत्थं ॥२३१॥ 18. विनाशनीयद्वैविध्याद् विनाशनं द्विविधमुक्तम् । सम्प्रति विनाशकभेदात्तदाह-स्वपक्षपरपक्षादि वा । स्वपक्षः साधुश्राव कादिरूपः, परपक्षस्तु मिथ्यादृष्टिलक्षणो यश्चैत्यद्रव्यविनाशकः, आदिशब्दाद् मिथ्यादृष्टिभेदा एव गृहस्थाः पाखण्डिनश्च चैत्यद्रव्यविनाशका गृह्यन्ते । ततोऽयमभिप्रायः-योग्यातीतभेदाद् मूलोत्तरभेदात् स्वपक्षपरपक्षगतयोहस्थपाखण्डिरूपयोर्वा विनाशकयोर्भेदात् प्रागुक्तं तद्रव्यविनाशनं द्विविधभेदमिति ॥ ४१६ ॥ ___ अथ चैत्यद्रव्यरक्षाफलमभिधातुमाह;जिणपवयणबुड्डिकरं पभावगं णाणदंसणगुणाणं । रक्खंतो जिणदत्वं परित्तसंसारिओ होइ ॥ ४१७ ॥ जिनप्रवचनवृद्धिकरं भगवदर्हदुक्कशासनोन्नतिसम्पादकम् , अत एव(प्रभावक)विभावनं विस्तारहेतुः। केषामित्याहज्ञानदर्शनगुणानाम् । तत्र ज्ञानगुणा वाचना-प्रच्छना-परावर्त्तना-अनुप्रेक्षाधर्मकथालक्षणाः, दर्शनगुणाश्च सम्यक्त्वहेतवो जिनयात्रादिमहामहरूपाः रक्षस्त्रायमाणो जिनद्रव्यं निरूपितरूपं, साधुः श्रावको वा परित्तसंसारिकः परिमितभवभ्रमणभाग् भवतीति । तथा हि-जिनद्रव्ये रक्षिते सति तद्विनियोगेन चैत्यकार्येषु प्रसभमुत्सर्पत्सु भविनो भव्याः समुद्गतोदग्रहर्षा निर्वाणावन्ध्यकारणबोधिवीजादिगुणभाजो भवन्तीति। तथा, चैत्याश्रयेण संविग्नगीतार्थसाधुभिरनवरतं सिद्धा द्वैविध्यम् 8। चैत्यद्र० रक्षणफ RSSSSS ॥२३१॥ HESALA
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy