________________
समासः । धर्म्म वा जिनप्रणीतं स न जानाति । अनेन च तस्य मिथ्यादृष्टित्वमुक्तम् । अथवा, जानन्नपि किञ्चिद् धर्म्म वायुको नरकादिदुर्गतौ पूर्व चैत्यद्रव्यादिचिन्ताकालात् प्रागू इति ॥ ४१४ ॥
तथा-
| चेइयदवविणासे तदवविणासणे दुविहभेए । साहू उवेक्खमाणो अनंतसंसारिओ भणिओ ॥ ४१५ ॥
इह चैत्यद्रव्यं क्षेत्र हिरण्यग्रामवनवास्त्वादिरूपं तत्तत्समयवशेन चैत्योपयोगितया सम्पन्नं तस्य विनाशे चिन्तानियुक्तैः पुरुपैः सम्यगप्रति जागर्यमाणस्य स्वत एव परिभ्रंशे सम्पद्यमाने, तथा तद्द्द्रव्यविनाशने चैत्यद्रव्यविलुण्टने परैः क्रिय| माणे । कीदृशे इत्याह-द्विविधभेदे वक्ष्यमाणविनाशनीयद्विविधवस्तुविपयत्वेन द्विप्रकारे । साधुः सर्वसावद्यव्यापारपराङ्मु| सोऽपि यतिरुपेक्षमाणो माध्यस्थ्यमवलम्बमानोऽनन्तसंसारिको परिमाणभवभ्रमणो भवति, सर्वज्ञाज्ञोल्लंघनात् । उक्त च पथकल्पभाग्ये, यथा - " चोएइ चेइयाणं खेत्तहिरण्णाई गामगावाई । मग्गतस्स हु जइणो तिगरणसुद्धी कहं नु भवे ? ॥ १ ॥ भण्णइ एत्थ विभासा जो एयाई सयं विमग्गेज्जा । न हु तस्स होइ सुद्धी अह कोइ हरेज एयाई ॥ २ ॥ सचत्वामेण तहिं संघेणं होइ लग्गियां तु । सचरित्तचरित्तीणं एवं सधेसिं सामन्नं ॥ ३ ॥” इति ॥ ४१५ ॥
अथ यद् द्रव्यद्वैविध्याद् द्विविधं विनाशनमुक्तं, तदेव दर्शयति
| जोग्गं अतीयभावं मूलुत्तरभावओ अहव कट्टं । जाणाहि दुविहभेयं सपक्खपरपक्खमाई च ॥ ४१६ ॥