________________
'कालाइकम'त्ति आगमनकालातिवाहने सम्पन्ने सति बुभुक्षा गालवस्य समजायत । ततस्तेन ज्येष्ठवनाद् दाडिमग्रहः कृतः भुक्तानि च तानि । मुहर्त्तान्तरादागमस्तु प्रत्यावृत्त्य स्ववने ज्येष्ठस्य इतरस्य लघोस्तं प्रति वन्दना वभूव । 'पास'ण'त्ति दृष्टं च लुप्तदाडिमफलं स्ववनम् । पृच्छा च कृता तेन केनेदमित्थं विहितमिति । कथितं चानेन यथा मयेति । ततः आङ्गिरसेनोचे । इतः स्वयमेव दाडिमग्रहणादत्तादानाद्, यद्यपि "पावं छिंदइ जम्हा पायच्छित्तं तु भण्णई तम्हा । पाएण वावि चित्तं विसोहए तेण पच्छित्तं " ॥ १ ॥ इति वचनाद् अपराधशुज्युपायभूतमनुष्ठानं प्रायश्चितमुच्यते, तथाप्युपचारात् प्रायश्चित्त शोध्योऽपराधोऽपि प्रायश्चित्तशब्दवाच्यः, ततः प्रायश्चित्तमस्यास्तीति प्रायश्चित्ती भवानिति कृत्वा नो नेत्र वन्दे प्रतिवन्दे प्रतिवन्दनं करोमि ते । निशीथेऽप्युक्तम्- "मूलगुणउत्तरगुणे संथरमाणावि जे विसीति । ते नहु हुंत बंदणिज्जा ।" इति ॥ ३७९ ॥ २ ॥
गालव उवाच- दत्त यूयमेवेदं मे प्रायश्चित्तम् । आंगिरसः - गच्छ एतन्मण्डलाधिपतिनगरे नृपं राजानं ' मग्गाहि 'त्ति याचस्त्र शुद्धिम्, दुष्टनिग्रहशिष्टपरिपालन योस्तस्यैव सर्वाश्रमगुरुत्वेनाधिकारित्वात् । गालवः - स राजा दूरे महता | व्यवधानेन वर्त्तत इति न शक्यते तस्य समीपे गन्तुम् । तत आङ्गिरसेन पादलेपः समर्पितो यत्सामर्थ्याद् राजान्तिके गन्तुं शक्यत इत्यस्मात् पादलेपाद् गमनमभूत् । नृपमार्गणाद् राज्ञः समीपात् प्रायश्चित्तस्य याच्ञा कृता । ततो राजा दिष्टैः 'धम्मसत्थि 'त्ति धर्मशास्त्रिभिर्मनुप्रभृतिमुनिप्रणीतधर्मशास्त्रपाठकैः छेदस्तु छेद एव हस्तयोः प्रायश्चित्तमादिष्टम्, न
१. 'यद्यपीत्याह पानं छिंत्ति पावं छिंदः स ग घ 'यदीत्याह पावं छिंदत्ति पावं छिंदइ' '